________________
१६२
काव्यमाला ।
विस्मृतं संकेतस्थलं यया एतादृशी सा । तत्र तत्र तस्मिंस्तस्मिन्नेव वानीरवने वेतसवने । विस्मृतं निधानदेशमिव निधिस्थलमिव तव दर्शनमन्वेषयतीति भावः । निधानस्थाने विस्मृते सति तत्संनिधानस्य यथा सर्वोपि देशः पुङ्खानुपुङ्खरूपेणान्विष्यते, तथा सापि सर्वत्रैव तस्मिन्वानीरवने भवन्तं विमार्गतीत्याशयः । तत्र तत्रैवेत्यनेन पुनः पुनस्तेष्वेवान्वेषणं करोतीत्युत्कण्ठातिशयो ध्वन्यते । त्वां विमार्गतीत्यस्य स्थाने तव दर्शनं विमार्गतीत्यनेन विस्मृतसंकेततया त्वामलभमानासौ त्वदर्शनमपि सांप्रतं बहु मन्यते किं युनस्त्वत्समागमसुखमित्यनुरागातिशयो व्यज्यते। विमार्गतीति वर्तमानार्थं सूचयता लटा, अधुनापि सा त्वद्गतचित्ततया वानीरवनान्वेषणमेव करोति, न कथंचित्ततो निवर्तितुं कामयत इति तामेतां त्वरितं संभावयेति नायकार्थ त्वरातिशयो व्यज्यते । गङ्गाधरस्त्वेतदवतरणे 'अहं तु गतः सा न गता' इति वदन्तं नायकं प्रति नायिकायास्तत्र गमनं प्रतिपादयन्ती दूत्याह' इति केवलं नायिका तत्र गताऽभूदित्येव सूचयति, न तु नाय. कस्य संप्रति गमनमभ्यर्थयते । एतदभावे 'विमार्गणं चकार' इत्येव वक्तव्यमासीत् 'विमार्गतीति वर्तमानार्थस्य किं खारस्यमिति मार्मिकैर्विचार्यम् ।
रोषमुपगता सेयं रहस्यं प्रकाशयेदिति भयेन दूतीतो मनोगतं गोपयन्ती कांचन सुजनचरितेन समाश्वासयन्ती काचिदाह
दृढरोसकलुसिअस्स वि सुअणस्स मुहाहिँ विप्पिो कन्तो। राहुमुहम्मि वि ससिणो किरणा अमअं विअ मुअन्ति ॥१९॥ [दृढरोपकलुषितस्यापि सुजनस्य मुखादप्रियं कुतः।
राहुमुखेऽपि शशिनः किरणा अमृतमेव मुञ्चन्ति ॥] वदनात्सुजनस्य कुतोऽप्रियं सुदृढरोषकलुषितस्यापि ।
राहुमुखेपि हि शशिनः किरणाः पीयूषमेव मुञ्चन्ति ॥ १९ ॥ सुदृढरोषेण कलुषितस्य दुर्मनायितस्यापि सुजनस्य मुखात् । अप्रियं परमर्मवेधक वचनं कुतः ? नैवेति काक्वा सूच्यते । राहुमुखेपीत्यनेन-वैरिणा सुभृशमाक्रान्तोपि शीतभानुर्यथाऽमृतमेव वर्षति न कालकूटं तथैव दुर्जनैः खेदितापि नेयं भवत्या रहस्यं प्रकाशयेदिति तस्या मनस्वितया समाश्वसिहीति सान्त्वनमभिव्यज्यते । राहुदृष्टान्तेन-सर्वथा ग्रासेपि नेयं प्रणयभङ्गं कुर्यादिति ध्वन्यते । 'कृतापराधं नायकसहचरं भयानायकोपसर्पणविमुखमभिमुखयितुं काचिदाह' इति गङ्गाधरः ।
आत्मना प्रहितस्य प्रणयोपहारस्य परावर्तनेन नायिकायाः प्रणयभङ्गमनुमाय विषीदन्तं कान्तं सान्त्वयन्ती नायिकासखी सुजनचरितमाह
अवमाणिओ वि ण तहा दुम्मिञ्जइ सजणो विहवहीणो। पडिकाउं असमत्थो माणिजन्तो जह परेण ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org