________________
भूमिका ।
उपरिप्रत्ता कथासरित्सागरकथा यदि प्रमाणकोटावुपन्यस्तुं शक्येत [डॉक्टरपीटर्सनद्वारा बुन्दीनरेशपुस्तकालयादानीते सप्तशतीपुस्तके 'इति श्रीमत्कुन्तलजनपदेश्वरप्रतिष्टानपत्तनाधीश-मलयवतीप्राणप्रिय-कालापप्रवर्तकशर्ववर्मधीसखमलयवत्युपदेशपण्डि तीभूत-कविवत्सलहालाधुपनामक-श्रीसातवाहननरेन्द्रनिर्मिता-' इत्यादिपुष्पिकायां प्रमाणतया तदिदमुल्लिखितमेवेति पूर्वभूमिका द्रष्टव्या] तर्हि अनेन सुगमतया तदिदं सिध्येद् यदेष नरपतिः संस्कृतवैदुष्याभावेपि निजाश्रितानां कविपण्डितानां सततसंसर्गात्कवितापरिचयविदग्धो रसिकश्च समभूत् । अत एव तत्कालप्रचलिताः ग्राकृतकविताः सुभृशमभिनन्दन् तत्तत्कवींश्चोत्साहयन्नयं प्राकृतकवीनां कृते कल्पतरुरिव समोदमभिनन्दनभूमिरभूत् । रात्रिन्दिवं कविगोष्ठीपटिष्ठस्तन्मीमांसाभिनिविष्टतया तत्परिनिष्ठमतिः सोयं स्वयमपि कवयति स्म, सुमधुरं च कवयति स्म । अनन्तरं तु निजदयितया प्रवर्तितोयं संस्कृतभाषामप्यघिजगे।
एषा किल सप्तशती तेन महीभृता निर्मितेति यत्कैश्चिदुल्लिखितं सोयं स्पष्टो भ्रमः । प्रत्येकशतकस्यान्ते स्वयं सप्तशत्यामेव 'रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते' इत्युपनिबद्धम् । अनेन बहूनां कवीनामत्र गाथाः संगृहीता इति स्पष्टं सिध्यति । पूर्व मया प्रदर्शितमेव, यत्कविजनानां कृते कल्पद्रुमायमानस्यास्य सविधे बहवः कवयः सुबहुतरं संमानमवाप्य आश्रयमेव जगृहः, बहवश्च संमानलिप्सया दूरदूरादस्य सभामागत्य निजगुणान्प्रकटयांचक्रुः । कविताकलापको विदः सोयं तत्तत्कवीनां चमत्कारिणीस्तास्ताः कविताः सर्वा एव निजाश्रितैर्जनैः पत्रारूढाः कारयामास । अनन्तरं च तत्तेषां कवीनां कीर्तिस्थिरीकरणाथ तासां कवितानां मध्ये याः किल परममेव मधुराः, केनापि च चमत्कारेणालङ्कतास्तादृशीः सप्तशतं कवितास्ततः संग्रहा. दुच्चीयन्ते स्म । अयमर्थः सप्तशत्याः प्रथमशतकस्य तृतीयायां गाथायां स्फुटममिव्यक्तः-'सप्तशतानि कविवत्सलेन कोटेमध्ये। हालेन विरचितानि सालंकाराणां गाथानाम्' इति । टीकाकारैः स्पष्टं व्याख्यातम्-'कविगाथासंग्रहेण तत्कीर्तिस्थिरी. करणात्कविवत्सलेन हालेन शालिवाहनेन सालंकाराणां गाथानां कोटेमध्ये सप्तशतानि विरचितानि । संगृहीतानीत्यर्थः' ।
राजोचितसुखविलासभृता येतेन महीक्षिता पूर्वसंगृहीतानां गाथानां संकलनमात्रस्थापि परिश्रमः स्वहस्तेन नानुभूत इति स्पष्टमहमभिप्रेमि ।
‘अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोष रत्नैरिव सुभाषितैः' इत्यादयो बाणादीनामुक्तयस्तु केवलमौपचारिक्यः । एतस्य महीपतेरभिप्रायमवगत्य राजपरितोषलालसेन केनचिदेतदाश्रितेन कविना तदुचेरनुसारं गाथानां सप्तशती एतनाम्नाङ्कयित्वा संगृहीता अस्मै समर्पिता च । नास्य संग्रहस्य सातवाहनभूपतिः स्वयं संकलयिता । 'निजगुणश्लाघया संतुष्टः सातवाहननरेन्द्रो मह्यमतिशयितां द्रव्यादिसपर्यामर्पयेत्' इति संग्रहीतुर्लालसा स्पष्टमस्मिन्ग्रन्थेऽभिनिविष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org