________________
भूमिका ।
सातवाहनः हालापरनामा कोयं सातवाहन इति निर्णयाय बहूनां संस्कृताभिज्ञानां पाश्चात्त्यपण्डितानां बहोः कालादभूवन्नेव गवेषणाः। तैर्यत्किश्चिनिश्चितं तद्धि प्रत्नगवेषणाव्यसनिभिरभिज्ञातमेव भवेत् , परं संस्कृतविदुषां कृते तस्य दिग्दर्शनं स्वर्गीयमहामहोपाध्यायपण्डितदुर्गाप्रसादमहाभागैः पूर्व मुद्रापितस्य पुस्तकस्य भूमिकातो भूयस्तरां भवेन्नाम । अत एवैतां भूमिकामविकलमुद्धृतवानस्मि । अनया हि गाथासप्तशत्यां केषां केषांचन कवीनां कृतयः संगृहीतास्तद्विषये, तत्संग्रहीतुः शालिवाहनस्य तट्टीकाकाराणां च विषये प्रायो भूयानेव परिज्ञातव्यविषयोऽधिगतो भवेत् । __ अयं किल सातवाहनः शकसंवत्सरप्रवर्तकः श्रीमान् शालिवाहन एवेति पूर्वभूमिकायामुद्धृतैः हैमकोषादिप्रमाणैः सुव्यक्तमेव । ततश्चास्य कालविषये निर्धमं निश्चित भवति यदयं ख्रिस्तीयसंवत्सरप्रथमशतके संबभूव । दक्षिणापथान्तर्गतं प्रतिष्ठानपुरमेतस्य राजधानी समभूत् । यद्धि सांप्रतं 'पैठण' नाम्ना प्रसिद्धम् । एतद्राज्याश्रिता गुणाढ्यशर्ववर्मप्रभृतयो भूयांसो विद्वांसः समभवन् । परमविदुषा महाकविना चानेनैव गुणाव्येन निर्मिता बृहत्कथा, या हि भुवनविश्रुता । एतस्य कवेर्विषये गदितं गोवर्धनाचार्येण
'अतिदीर्घजीविदोषाद व्यासेन यशोऽपहारितं हन्त ।
कैनोंच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥' कथासरित्सागरे यो ह्यस्य नरेन्द्रस्य वृत्तान्तः समुपलभ्यते तेनेदं परिज्ञायते यदयं महीपतिः पूर्वं नासीत्संस्कृतभाषाविद्वान् । एतस्याः प्रिया पट्टराज्ञी मलयवती तु संस्कृतभाषाविदुषी समभवत् । तया राज्या सह कदाचिजलकेलिमनुभवन्नयं 'मोदकैस्ताडय' [मा उदकैस्ताडय] इति तयाऽमिहितोऽभूत् । अयं तु सन्ध्यनभिज्ञत्वात् राश्यास्ताडनाय मोदकानयनस्याज्ञां प्रददत्तया राझ्या परिहस्यते स्म । अनेन परिहासेन मर्मण्यभिहतः सोयं सभामागत्य यावत्त्वरितं व्याकरणाध्ययनाय निजाश्रितान्पण्डितानाजुहाव । तत्र गुणान्यप्रातिद्वन्द्व्ये स्थितः शर्ववर्मा षडभिर्मासैाकरणाध्यापनं प्रतिजज्ञे । पण्डितराजो गुणाढ्यस्तु एतावति समये व्याकरणपाण्डित्यमसंभवं मन्वानः 'यदि त्वं तथा कुर्यास्तर्हि प्रचलितभाषामात्रमहं त्यजेयम्' इति सोत्तेजनं पणबन्धं चकार । भगवन्तं कार्तिकेयं परितोष्य लब्धकलापव्याकरणः शर्ववर्मा तु दिव्यप्रभावात्प्रतिज्ञातकाले सातवाहनं व्याकरणपण्डितमकरोत् । प्रतिज्ञानुसारं त्यक्तप्रचलितभाषात्रयो गुणाढ्यः प्रतिष्ठानपुरं परित्यज्य वनवासमाश्रितो भूतभाषया बृहत्कथामुपनिबबन्ध । प्रसन्नः सातवाहनोपि शर्ववर्मणे गुरुरिति गौरवं प्रदाय महारत्ननिचयोपहारपुरस्सरं भरुकच्छप्रदेशस्याधिपत्यं तस्मै विततार । अनेनैतत्परिज्ञायते यद् भरुकच्छप्रदेशोऽप्यस्य शासने समभूत् , यो हि साम्प्रतं 'भरोंच' नाम्ना लोकानां परिचितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org: