________________
भूमिका ।
भवतीति तेषां वक्तव्यम् । पूर्वं हि व्याकरणनियम - लिङ्गादिषु भूयस्तरां खतन्त्राया गीर्वाणगिरो व्यवहारः समभवत् । सौष्ठवबुद्ध्या शनैः शनैर्व्याकरणनियमदृढीकरणेन साहित्यमार्गस्य भूयस्तरां प्रसारेण च क्रमशोऽस्यां देववाण्यां नानाविधानां संस्काराणामाविर्भावोऽभवत् । अत एव सुतरां संस्कृता सेयं देवगवी साहित्य भाषा गौरवपदमवाप्य क्रमशो व्यवहारपथात्ताटस्थ्य मवाललम्बे । व्यवहारार्थं च प्राकृतभाषाया जन्म समभवत् । कृततक्षणानीव असाधारणसमुज्वलानि दृढसंस्काराणि चाक्षराणि स्त्रीबालादिसाधारणसमुच्चारणे न सुकराण्यभवन्निति संस्कृतरूपेषु विकृतिमुत्पाद्य संस्कृताधारेण प्राकृतभाषाया आविर्भावोऽभवत् । यदा च पूर्वोक्तप्रकारेण प्राकृतभाषापि नानालंकारसंकाशितरूपा समुज्वलनेपथ्या समभवत्तदा साधारणवेष-भूषाभिर्योषाभिः संपाद्यानि गृहव्यवहार कार्याणि यथा आनखशिखमलंकृताभ्यः समुज्जवलनेपथ्याभ्यो महिलाभ्यो विप्रकृष्टानि भवन्ति तथा शनैः शनैरियमपि भाषा व्यवहारपथात्तटस्थाभवत् । कार्यव्यवहारक्षेत्रे च अपभ्रंशभाषाया जन्म समभवत् । यदा च अपभ्रंशभाषापि शनैः शनैः सौष्ठवबुद्ध्या संस्कारैरुद्भासिता साहित्यपुस्तकस्थभाषाभवत्तदा व्यवहारार्थं प्रादेशिक भाषाणां मूलोत्पत्तिरभूदिति जानन्त्येव तत्त्वविदो विद्वांसः । यदा हि प्राकृतं व्यवहाराद्दूरे भूत्वा पुस्तकस्था भाषा संपन्नाभवत् अपभ्रंशश्व व्यवहाराद्दूरे गच्छन्नासीत्तस्मिन्नेव समये [११५० तमे ख्रिस्तसंवत्सरे] हेमचन्द्राचार्येण प्राकृतव्याकरणं कोषश्च निरमीयत । अस्य परिशेषेऽपभ्रंशस्यापि नियमाः संस्काराश्च संगृहीता इति तत्परिशीलकाः परिचिनुयुः ।
उपरितनेन भाषाणां विपरिवर्तनेतिहासेन तदिदमेव मे वक्तव्यं यत् पूर्णसंस्कारैः परिष्कृता पूर्णा प्रौढिं चाधिगता सेयं प्राकृतभाषा यस्मिन्समये साहित्यसिंहासनमध्यारुरोह, यश्च प्राकृतभाषायाः परमोत्कर्षस्य पूर्णो मध्याह्नकालः समभवत्तस्मिन्नेव समये प्राकृतसाहित्यस्य चरमोत्कर्षसूचिकायाः श्रीमत्या गाथासप्तशत्या जन्म समभवत् । यावत्किल प्राकृतभाषा प्राकृतजनानां केवलं व्यवहारमात्रोपयोगिनी समभवत्, न च यावत्सेयं समर्थैः कविभिरात्मनः सरखतीनिः स्यन्दाय निर्वाचिताभवत्, तावन्नानया सह संस्कृतभाषायाः संघर्षः समभूत् । यतो हि चरमोन्नति चुम्बिन्या श्रीमत्या संस्कृतसरखत्या सह केवलं व्यवहारसाधिकायाः प्राकृतभाषायाः का नाम तुलना ? परं यदा शनैः शनैरुपचितसर्वाङ्ग सौन्दर्या, समुचितैः साहित्यसंस्कारैः समुज्वलितलावण्या, सेयं साहित्यसौधमधिकर्तुं पूर्णाधिकारिणी समभवत्, राजशेखर सदृशैर्भूयोभिर्महाकविभिर्निजप्रतिभाप्रसाराय च यदा सेयं सगौरवमधिगृहीताभूत्तदा साहित्यसौधस्य संमुखवेदिकायामेवद्वयोरेव भाषयोः परस्परं संघर्षः समुपस्थितोभूत् । साहित्यरजस्थले संस्कृतभाषया सह स्पर्धासंकथैव प्राकृतभाषायाश्चरमोत्कर्षं पिशुनयितुमलम् । पूर्वोपन्यस्तैर्वचनैश्च द्वयोरनयोः स्पर्धा स्फुटमनुमिता भवति । ततश्च यः किल प्राकृतभाषायाः पूर्णः समुत्कर्षकालः स एव सप्तशत्याः संग्रहकाल इति विवेकिभिरधिगन्तव्यं भवेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org