________________
भूमिका ।
स्यासाधारणं महत्त्वमास्थापयति पण्डितसमाजे । संस्कृतसरखत्याः सौभाग्यसीमानः एतादृशा महाकवयोपि प्राकृतस्याग्रे संस्कृतं गौणीकुर्वन्ति । आह सः --
४
परुसा सक्कअबन्धा पाउअबन्धो वि होइ सुउमारो । पुरुसमहिलाएँ जेत्तिअमिहन्तरं तेत्तियमिमाणम् ॥'
ललिए महुरक्खरए जुवईजणवल्लहे ससिंगारे । सन्ते पाइअकब्वे को सक्कइ सक्कअं पढिउम् ॥
Jain Education International
प्राकृत भाषा
2
देशजलवाध्वादीनां प्रभावाद्विलक्षणेन कण्ठतालवाद्यभिघातेन, करणापाटवेन, अन्येन वा केनचन निदानेन कामं भवेत्प्राकृतादिभाषाणामुत्पत्तिः परं विभिन्नवर्गीयैर्जनैः परस्परस्पर्धावशात्सेयं प्राकृतभाषा प्रकामं प्रसारमनीयतेति प्रतीतं भवति । वैदिकमतानुयायिनामार्याणां जैन-बौद्धादिभिः सह यदा हि धार्मिकः संघर्षः समुपस्थितोऽभूत्तदा ह्यार्याणां धार्मिकी भाषा संस्कृतमभवत् । अत एव तत्प्रातिद्वन्द्वयेन जैनैरर्धमागधी, बौद्धैश्व पालीतिपरिभाषिता प्राकृतभिदा प्राधान्येन धर्मप्रचारभाषा न्ययम्यत । इत्थं ग्रन्थनबाहुल्येन शनैः शनैरुपचयमुपगता सेयं प्राकृतभाषा यस्मिन्समये प्रकामं प्रौढिमधिजगाम तद्धि प्राकृतभाषायाः कृते मध्ययुगमिति व्यपदिशामः । अनादिकालादारब्धा गीर्वाणगवी तु स्वाभाविकेन निजसौष्ठवेन शनैः शनैः संस्कारजनितेन केनचिदनिर्वचनीयेन सौन्दर्यमहिना च सुभृशमासीदेव विवेकिनामभिनन्दनभूमिः परं संस्कृतपदाङ्कानुशीलनेन तत्साहित्यमार्गानुवर्तनेन तद्रसालङ्कारगुणाद्यनुगमनेन च प्राकृतभाषापि शनैः शनैः प्रकामं प्रौढिं सुबहुतरं माधुर्यं चाधिजगामेति माननीयमेव भवेत् । अयमेव प्राकृतभाषार्थ पूर्णोपचयकालः । शनैः शनैरुपचयमधिगच्छन्ती प्राकृतभाषा यदा ह्येवंविधं चरममुत्कर्षमवाप तदैव सेयमपि साहित्यभाषैव भूत्वा व्यवहारात्क्रमशो दूरभावमवाप्तवती । भाषा हि यदा सुभृशं संस्कारं परां प्रौढिं सृदृढां च व्याकरणनियममर्यादामनुवर्तते तदा हि व्यवहारमार्गाक्रमशो दूरतां गच्छतीति भाषातत्त्वविदां मतम् । यतो हि साधारणजनतायाः प्रतिदिनव्यवहारे तादृश नियम निगडिताया भाषाया निर्वाहो न भवतीति क्रमशस्तादृशे सन्धिस्थले अन्यस्याः कस्याश्चन व्यवहारोपयोगिन्या भाषाया जन्मनः सूत्रपातो
2
१ परुषाः संस्कृतबन्धाः प्राकृतबन्धोपि भवति सुकुमारः । पुरुषमहिलानां यावदिहान्तरं तावदेतेषाम् ॥ २ ललिते मधुराक्षरे युवतिजनवल्लभे सशृङ्गारे | सति प्राकृतकाव्ये कः शक्नोति संस्कृतं पठितुम् ॥
[ कर्पूरमञ्जरी ]
For Private & Personal Use Only
[ वजालग्ग ]
www.jainelibrary.org