________________
२ शतकम् ] संस्कृतगाथासप्तशती।
[अन्यमन्यं कुसुमरसं यत्किल स इच्छति मधुकरः पातुम् ।
तन्नीरसानां दोषः कुसुमानां नैव भ्रमरस्य ॥] कुसुमरसमन्यमन्यं मधुकर इच्छति स यत्पातुम् ।
दोषः स नीरसानां कुसुमानां नैव मधुपस्य ॥ ३९ ॥ अन्यम् अन्यं नानाविधं कुसुमरसमित्यर्थः। एकत्र निजेच्छानुरूपस्य मधुनोऽलाभा. देव यथा मधुकरो नानाकुसुमेषु भ्रमति, तद्वदयमपि इच्छानुकूलां नायिकामलभमान एव नैकत्र स्थिरतां लभते। मामुपलभ्य यथामनोरथं रसमुपभुञ्जानस्यास्य यथा चाञ्चल्यं शाम्यति तादृक्सौभाग्यं मे भवतीभिर्द्रक्ष्यत इति व्यज्यते । 'मधुप' पदेन मधुपानं तस्य खभावस्ततश्च नीरसेषु तदलामे को दोषस्तस्य । एवमेव रसिकस्यास्य न दोषः, प्रत्युत रसमार्गमजानतीनां नारीणामेव इति सूच्यते। मन्दस्नेहं नायकं नायिकया संघटयितुं दूती तस्याः प्रणयातिशयमाह
रत्थापइण्णणअणुप्पला तुमं सा पडिच्छए एन्तम् । दारणिहिएहिं दोहिँ वि मङ्गलकलसेहिँ व थणेहिं ॥४०॥ [रथ्याप्रकीर्णनयनोत्पला स्वां सा प्रतीक्षते आयान्तम् ।
द्वारनिहिताभ्यां द्वाभ्यामपि मङ्गलकलशाभ्यामिव स्तनाभ्याम् ॥] 'रथ्याप्रकीर्णनयनोत्पलोपयन्तं प्रतीक्षते सा त्वाम् ।
द्वारधृताभ्यां मङ्गलकलशाभ्यामिव कुचाभ्यां हि॥४०॥ खागतनिमित्तं रथ्यायां प्रकीर्णे प्रसारिते नयने एवोत्पले यया [अभीष्टस्यागमने चरणन्यासार्थ पथि वरवस्त्रम् ('पगपाँवडा') आस्त्रियते इत्याचारः] पूजार्थ रथ्यायां निहितनयनोत्पला वा। द्वारधृताभ्यां मङ्गलकलशाभ्यामिव स्तनाभ्याम् ( उपलक्षिता) सती उपयन्तम् आगच्छन्तं त्वां प्रतीक्षते। आगच्छन्तं प्रतीक्षते इत्युक्त्या 'भवान् मार्गे आगच्छतीव' इति दिवानिशं भवदनुध्यानादुत्कण्ठातिशयस्तस्या दूत्या सूच्यते । अथवात्वदाह्वानाय मां संप्रेष्य भवदनुरागे सुदृढविश्वासा सा त्वां प्रतीक्षते इति । 'तुम सा पडिच्छए एन्तम्' इति स्थाने 'तुमं पुत्ति कं पलोएसि' इति क्वचित्पुस्तके पाठो दृश्यते । 'त्वं पुत्रि के प्रलोकयसि' इति तस्यार्थः। तत्रेत्थं व्याख्या-रथ्यावलोकन-द्वारस्थिति-स्तनप्रदर्शनैः कलितशीलखण्डनां कुलवधू प्रति आह-रत्थेति । अयं भावः-नयनोत्पलाभ्यां कृतरथ्यापूजा द्वारि कलशाविव स्तनौ निधाय यस्य वम प्रतीक्षसे तं कथय मया तदानयने यत्नो विधेय इति गङ्गाधरटीका ।। __ अगृहीतानुनयां कलहान्तरितां विमुच्य रोषविलक्षतया तिष्ठन्तं नायकं पुनरनुनयाय परोचयितुं दूती तस्याः परितापमाह
ता रुण्णं जा रुबइ ता छीणं जाव छिज्जए अङ्गम् । ता णीससिौं वराइअ जाव अ सासा पहुप्पन्ति ॥ ४१॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org