________________
काव्यमाला।
[तावद्बुदितं यावदुद्यते तावत्क्षीणं यावत्क्षीयतेऽङ्गम् ।
तावन्निःश्वसितं वराक्या यावत् [च] श्वासाः प्रभवन्ति ॥] रुदितं तावद्यावद्द्येत क्षीणमङ्गमपि तावत् ।
निःश्वसितं च वराक्या तावत्प्रभवन्ति यावदुच्छासाः॥४१॥ वराक्या दयनीयया तया यावद्रुह्येत रोदितुं शक्येत तावद् रुदितम् । रुद्यत इति संभावनार्थकलिङा यतोधिकं रोदनं न संभवति तावद्रुदितमित्यतिशयो द्योत्यते । अङ्गमपि तावत्क्षीणं यावत्क्षेतुं शक्येत इति पूर्वानुषङ्गेणार्थः । यावन्निःश्वासाः प्रभवन्ति तावन्निःश्वसितम् । त्वदवधीरणेन रुदन्त्यास्तस्यास्तथा क्षीणमङ्गं यथेदानीं श्वसितुमपि न सामर्थ्यम् । तदिदानी भवदुपेक्षया म्रियमाणामिमामनुनयेनानुकम्पखेति दूत्याभिव्यज्यते ।
कस्यांचन नायिकायां शृण्वन्त्यामुपरतदयिताविरह विह्वलमात्मानमनुशोचन्कश्चिदात्मनः स्थिरस्नेहतासूचनेन तां प्ररोचयितुमाह---
समसोक्खदुक्खपरिवड्डिआण कालेण रूढपेम्माणम् । मिहुणाण मरइ जं तं खु जिअइ इअरं मुअं होइ ॥ ४२ ॥ [समसौख्यदुःखपरिवर्धितयोः कालेन रूढप्रेम्णोः।
मिथुनयोम्रियते यत्तत्खलु जीवति इतरन्मृतं भवति ॥] समसुखदुःखसमितयो रूढप्रेम्णोस्ततस्तु कालेन ।
दम्पत्योर्मियते यो जीविति सोन्यो मृतो भवति ॥ ४२॥ समाभ्यामुभयोः साधारणाभ्यां सुखदुःखाभ्यां समितयोरेकीभूतयोः । सुखदुःखावस्थायामेकीभूय परिवर्धितयोरिति भावः। ततः क्रमेण गच्छता कालेन दृढप्रणययोर्दम्पव्योर्मध्ये यः ( जाया पतिर्वा ) म्रियते स जीवति । अन्यस्तादृशवियोगदुःखान्मृतो भवति । वेरहदुःखदग्धादीदृशाजीवितान्मरणमेव वरमिति भावः । प्राकृते 'मिथुन'शब्दः समुदामवाचकोपि लक्षणया प्रत्येकं पलौ जायायां च प्रयुक्तः, गङ्गाधरेण तु संस्कृतच्छायायामपि तथैव गृहीतः। मत्कृतच्छायायां तु दम्पतीशब्दप्रयोगान्न तादृशक्लेशः । ईदृशे दृढप्रेमणि मयि चेदनुरज्यसि, तर्हि पश्य कीहक्त्वामनुवर्ते इति शृण्वन्ती प्रति द्योत्यते ।
वसन्ते प्रियप्रवासश्रवणेन समधिकविह्वलां कुलवतीमाश्वासयन्ती चतुरा काचित्सखी ससान्त्वनमाह
हरिहिइ पिअस्स णवचूअपल्लयो पढममञ्जरिसणाहो । मा रुवसु पुत्ति पत्थाणकलसमुहसंठिओ गमणम् ॥ ४३ ॥ [हरिष्यति प्रियस्य नवचूतपल्लवः प्रथममञ्जरीसनाथः ।
मा रोदीः पुत्रि प्रस्थानकलशमुखसंस्थितो गमनम् ॥] पुत्रि प्रस्थानकलशमुखनिहितः प्रथममअरीसहितः । . नवचूतपल्लवोयं हर्ता गमनं प्रियस्य, मा रोदीः ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org