SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ६८ काव्यमाला | स्त्रीणां वामनेत्रस्फुरणं शुभशकुनसूचकमित्याकलय्य स्फुरितवामनेत्रा प्रोषितपतिका प्रियतमागमन परितोषेण वामनयनमेवमामन्त्रयते फुरिए वामच्छि तुए जइ एहि सो पिओ ज ता सुइरम् । संमीलिअ दाहिणअं तुइ अवि एहं पलोइस्सम् ॥ ३७ ॥ [ स्फुरिते वामाक्षि त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम् । संमील्य दक्षिणं त्वयैवैतं प्रेक्षिष्ये ॥ ] स्फुरिते वामाक्षि ! त्वयि यद्येष्यति स प्रियोऽद्य तत्सुचिरम् । संमील्य दक्षिणं तत्प्रेक्षिष्येहं त्वयैवैतम् ॥ ३७ ॥ हे वामनेत्र ! त्वयि स्फुरिते विदेशगतः स प्रियो यदि अद्यैष्यति तत् तर्हि दक्षिणं तत् (नयनम् ) निमील्य तदागमनसंवाददायकेन त्वयैव एतं प्रियं सुचिरं प्रेक्षिष्ये । अन्यत्र सर्वत्र कृतसमादरमपि दक्षिणं नयनं निमील्य कृतज्ञताबुद्ध्या त्वामेवैकं प्रियतमदर्शनेन कृतार्थयिष्यामीति भावः । कामुकान्तरसंभोगभयं प्रदर्श्य कयाचिन्नायिकया सह कंचन नायकं संयोजयितुकामा दूती तस्या अनुरागातिशयमाह सुणअपरम्म गामे हिण्डन्ती तुह करण सा बाला । पाससारिव घरं घरेण कहआ वि खजिहि ॥ ३८ ॥ [ शुनकप्रचुरे ग्रामे हिण्डमाना तव कृतेन सा बाला । पाशकशारीव गृहं गृहेण कदापि खादिष्यते ॥ ] शुनकप्रचुरे ग्रामे भ्राम्यन्ती तव कृतेन सा बाला । पाकशारीव गृहं गृहेण खादिष्यते कदाप्यङ्ग ॥ ३८ ॥ शुनकप्रचुरे सारमेयबहुले ग्रामे तव कृतेन भवद्दर्शनार्थं पाशकशारीव चतुष्पटीगुटिकेव ( 'चौपडकी सार' ) । द्यूतगुटिका यथा द्यूतपदृस्य प्रतिगेहूं भ्राम्यति तथा गृहेण गृहं भ्राम्यन्ती सा बाला । 'अङ्ग' इति संबोधने, हे भद्र ! कदापि कस्मिंश्चन लोकानामनवधानसमये खादिष्यते शुनकैर्भक्षयिष्यते । ततश्च शुनकप्रायकामुकवहुले ग्रामे भ्राम्यन्ती सैषा नवयौवना यावदन्येन नोपभुज्यते तावदेव त्वय्यनुरक्ता सेयं द्रुतमनुकम्पनीयेति कामुकं प्रति व्यज्यते । शुनकपदेन ' त्वदग्रे अन्ये कामुकाः शुनका इव दृश्यन्ते' इति दूत्युपदर्शितः कामुके बहुमानातिशयः सूचितः । ' सारी' इति दन्त्यपाठस्थापने 'पाशयुक्ता सारीव सारिकेव खादिष्यते' इत्यर्थोपीति केचित् । यस्मिन्यूनि त्वं बद्धानुरागा स किल चञ्चलप्रणय इति कथयन्तीं सखीं नायिका निजसौभाग्यं साभिमानमाह - अण्णणं कुसुमरसं जं किर सो महइ महुअरो पाउम् । तं णीरसाएँ दोसो कुसुमाणं णेअ भमरस्स ॥ ३९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy