________________
२ शतकम् ] संस्कृतगाथासप्तशती । कार्यण' 'दग्धकाकेन' इत्यपि बुध्येते। ततश्च पक्षान्तरे-लोष्टप्रक्षेपादिना परिभूतेन । अन्नकार्येण अन्नप्राप्त्यर्थ समस्तदिनं यावत् प्रतिगृहं भ्रमता, चिरजीवितेन दीर्घायुषा [‘स एव च चिरंजीवी चैकदृष्टिश्च मौकुलिः' इत्यमरः] काकहतकेन दध्याद्युपधाताद्युपद्रवादुद्विग्नाः स्मः, इत्यर्थः प्रतीयते । 'अण्णकजम्मि' 'दड्डकाएण' इत्यादिशब्दशक्तिमूलध्वनिना 'अहं युवयोः प्रसादनाय गृहाद् गृहं परिभ्रमन्ती काकस्येव तिरस्क्रियामनुभवामि, युवां नैतद्विचारयथस्तदात्मनो मम च क्लेशमात्रदायकेनानेन हठहतकेन संप्रति किं वा फलम्' इत्यर्थः प्रकाश्यते।। दुर्जनसविधे न रहस्यं प्रकाशनीयमिति शिक्षयन्कश्चित्सहचरमाह
वसइ जहिं चेअ खलो पोसिजन्तो सिणेहदाणेहिं । तं चेअ आलअं दीअओ व अइरेण मइलेइ ॥ ३५ ॥ [वसति यत्रैव खलः पोष्यमाणः स्नेहदानैः ।
तमेवालयं दीपक इवाचिरेण मलिनयति ॥] यत्रैव पोप्यमाणो वसति खलः स्नेहदानेन ।
दीपक इवाचिरेणाऽऽलयं तमेवैष मलिनयति ॥ ३५ ॥ स्नेहपूर्वकमाश्रयदानेन, स्नेहस्य प्रणयस्य दानेन वा । पोष्यमाणः संवर्ध्यमानो दुर्जनः, यत्रैव वसति यदाश्रयेणैव वसतीत्यर्थः । एष खलस्तमेवालयमाश्रयभूतं जनमचिरेणैव पोषणदशायामेव मलिनयति अपवादप्रचारणादिना दूषयतीत्यर्थः । पक्षे--तैलदानेन दीप्यमानो दीपकः स्वाश्रयभूमिभागमचिरेणैव कजलादिभिर्मलिनयतील्यों बोध्यः। तथा चैवंविधविश्वासवञ्चकेभ्यः सुतरामवधेयमिति भावः। 'सिणेहदाणेहिं' इति मूलपदाङ्केन बहुत्वाग्रहे तु 'स्नेहदानैर्हि' इति पाठ्यम् ।। गृहायातं कश्चन भुजङ्गं बहुधनदानाय प्रोत्साहयन्ती कुट्टनी कृपणनिन्दामुपन्यस्यति
होन्ती वि णिप्फलच्चिअ धणरिद्धी होइ किविणपुरिसस्स । गिमाअवसंतत्तस्स णिअअछाहि व पहिअस्स ॥ ३६॥ . [भवन्त्यपि निष्फलैव धनऋद्भिर्भवति कृपणपुरुषस्य ।
ग्रीष्मातपसंतप्तस्य निजकच्छायेव पथिकस्य ॥] भवति कृपणपुरुषस्य प्रभवन्त्यपि निष्फलैव धनवृद्धिः ।
ग्रीष्मातपसंतप्तस्य निजच्छायेव पथिकस्य ।। ३६॥ प्रकर्षण भवन्त्यपि, प्रभूतेत्यर्थः। यथा पथिकस्य स्वीया छाया नात्मनो नापि वा परस्य संतापं हरति तथा कृपणस्य धनमिति भावः । आतपसंतप्तस्यापि यथा खच्छायया न सुखोपलब्धिस्तथा स्वधनेनापि न तस्य सुखमित्याशयः। छायोपमया छायावत्सर्वदा धनेन साकं सहभावेपि तत्कृतः सुखाभावो ध्वन्यते । पथिश्रान्ततया अनातपं वाञ्छन्नपि स्वच्छायया सौख्यमलब्वैव पथिको यथा यात्रा समापयति, तथा कृपणः आवश्यकत्वेपि धनसौख्यमलभमान एव जीवनयात्रां कष्टं समापयतीति पथिकपदेन ध्वन्यते। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org