________________
६६
काव्यमाला |
तमेव निरन्तरं भावयन्त्या ममाक्ष्णोस्तस्य रूपं स्थितम् । अङ्गेषु ( तदङ्गानाम् ) स्पर्शः स्थित इत्यादिलिङ्गविपरिणामेन योजनीयम् । रूपम्, सौकुमार्यम्, प्रियवचनानि, सद्भाववर्तनानि च यथाक्रमं भावयन्त्या मम विरहवेदना न समुदेतीति भावः । ' अत्र दैवेन किं वियोजितम्' इत्यनेन दैवमपि दयितेन सह मम वियोगं साधयितुं न प्राभवत् । प्रियेण सहाऽविश्वासोपदेशकानि तव वचनानि तु कानीति दूतीं प्रति ध्वन्यते ।
प्रोषितभर्तृकायाः सखी तत्कान्तसमीपगामिनं पान्थं प्रति निजसख्याः सुविषमां विरह वेदनां गृहागमनाय त्वरयितुमेवमुपवर्णयति —
सअणे चिन्तामइअं काऊण पिअं णिमीलिअच्छीए । अप्पाणो उवऊढो पसिठिलवलआहिँ बाहाहिं ॥ ३३ ॥ [ शयने चिन्तामयं कृत्वा प्रियं निमीलिताक्ष्या । आत्मा उपगूढः प्रशिथिलवलयाभ्यां बाहुभ्याम् ॥ ] शयने निमीलिताक्ष्या कृत्वा चिन्तामयं प्रियं तावत् । प्रशिथिलवलयाभ्यामुपगूढो ह्यात्मैव बाहुभ्याम् ॥ ३३ ॥
भावनासमुपस्थितदयितसमागमेनानन्दातिशयात् निमीलितनेत्रया अनया मत्सख्या शयने शयनीये भावनामयं दयितं कृत्वा कल्पयित्वा । विरहदौर्बल्यात्प्रशिथिलवलयाभ्यां बाहुभ्याम् आत्मैव उपगूढः । दयितभावनया स्वशरीरमेवालिङ्गितमिति भावः । ‘आलिङ्गितः' इत्याद्यनुक्त्वा 'उपगूढः' इत्यत्र 'गुह' धातुरूपप्रकृत्या विरहोत्तरं दयितलाभेनोत्कष्ठातिशयान्न पुनरपसरेदिति हृदयैकीकरणरूपं सुदृढं परिरम्भणमभिव्यज्यते । तयावदियं दशम दशां न प्रयाति तावदेव लघुतरमनुकम्पखेति तद्दयितं प्रति समीहितं सूच्यते । प्रणयकलहेन दूरमवस्थितयोर्यूनोः समञ्जसकरणाय गतागतखिन्ना दूती द्वयोरपि मानशमनार्थमात्मनिन्दामाह -
परिहूण वि दिअहं घरघरभमिरेण अण्णकजम्मि | चिरजीविएण इमिणा खविअझ दड्ढकाएण ॥ ३४ ॥ [ परिभूतेनापि दिवसं गृहगृहभ्रमणशीलेनान्यकार्ये । चिरजीवितेनानेन क्षपिताः स्मो दग्धकायेन ॥ ]
परिभूतेनापि दिनं गृहं गृहं भ्रामिणान्यकार्येण (अन्नकार्येण) । चिरजीवितेन सपदि क्षपिताः स्मोऽनेन दग्धकायेन (काकेन) ३४ रोषकटुवचनैः परिभूतेन तिरस्कृतेन । दिनं समस्तदिनपर्यन्तम् अन्यकार्येण परप्रयोजनसिद्ध्यर्थम् । युवयोः प्रणयकलह निवृत्त्यर्थमिति भावः । गृहं गृहं प्रति भ्रमणशीलेन । चिरजीवितेन बहोः कालादेवंविधजीवनयापकेन वृद्धेन अनेन दग्धकायेन सपदि अधुना क्षपिताः स्मः उद्वेजिताः स्मः । प्राकृते 'अण्णकज्जम्मि' 'दड्ढकाएण' इति पदाभ्यां 'अन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org