________________
२ शतकम् ] संस्कृतगाथासप्तशती।
६५ हास्येनैवोत्तरयन्ती नतु वाचा । धावति प्रक्षालयति इति त्वं पश्य साधु समीक्षखेत्यर्थः । गृहोपवेशनसमये पादौ प्रक्षालनीयाविति सतामाचारः। असमय एवं पादप्रक्षालनादन्यत्र गमननिषेधे चतुरगृहिण्यास्तात्पर्यमवगत्य हसतो गृहस्वामिनः पादौ गृहिणी 'मदभिप्रायो दयितेन विदितः' इति हसन्ती सती प्रक्षालयतीति भावः । गृहिणीनां दयितेषु परासक्तिनिवारणस्य सेयं पद्धतिरिति सखी प्रति ध्वन्यते । अभितः सोद्भेदः [प्रकाशः] सोयं भावालङ्कार इति सरस्वतीकण्ठाभरणम् । स्वाधीनपतिकोदाहरणेपि सेयं कण्ठाभरणे गृहीता (५ परि.)। मूले 'घरिणी घरसामिअस्स घेत्तण' इत्यादिर्दूरान्वयश्छायापये निवारितः । __ अधिकासक्तिवशात्सपत्नीनाम्ना व्यवहरन्तं कान्तं प्रति 'प्रत्यक्षोपस्थितामपि नेमां पश्यसि' इति गोत्रस्खलितकुपितां निजसखी निवारयन्ती वाग्विदग्धा काचन सगूढोपालम्भमाह
वाहरउ मं सहीओ तिस्सा गोत्तेण किं त्थ भणिएण । थिरपेम्मा होउ जहिं तहिं पि मा किं पि णं भणह ॥ ३१ ॥ [व्याहरतु मां सख्यस्तस्या गोत्रेण किमत्र भणितेन ।
स्थिरप्रेमा भवतु यत्र तत्रापि मा किमप्येनं भणत] सख्यो मां व्याहरतां तस्या गोत्रेण किमिह भणितेन ।
मा भणत किमप्येनं यतस्ततोप्यस्तु सुस्थिरप्रेमा ॥३१॥ हे सख्यः ! तस्या गोत्रेण ( नाना ) मां व्याहरतां व्यवहरतु । अत्र स्थूलव्यवहारसूचकेन कथनेन किम् । एनम् अनुरक्तामपि मां विहाय अन्यत्र कृतासक्तिकम् , किमपि मा कथयत । यतस्ततोऽपि यस्यां कस्यांचन नायिकायामेष सुस्थिरप्रेमा भवतु । पूर्वमयं मयि सुदृढमनुरज्यति स्म, ततः शीघ्रमेव मामपहाय अन्यस्यामासक्तिं बबन्ध, या हि संप्रति निरन्तरमेतस्याऽऽन्तरमधिवसति । वाचि निहितसपत्नीगोत्रः सोयं तत्रैव स्थिरप्रणयः स्यादेतदेवास्तु, परं नास्य प्रेम्णः स्थिरतेति भावः । एवमस्थिरप्रणये त्वयि किं वोपालम्भवचनैरिति दयितं प्रति ध्वन्यते।
दयितविरहावकाशमुपलभ्य निजवाञ्छितं साधयितुमिच्छन्तीं दुष्टदूतीं प्रतिनिवर्तयन्ती काचित्साध्वी प्रोषितभर्तृका दयितेनुरागातिशयमेवमाह
रूअं अच्छीसु ठिअं फरिसो अङ्गेसु जम्पिअंकण्णे । हिअ हिअए णिहि विओइअं किं त्थ देवेण ॥ ३२ ॥ [रूपमक्ष्णोः स्थितं स्पर्शोऽङ्गेषु जल्पितं कर्णे।
हृदयं हृदये निहितं वियोजितं किमत्र दैवेन ॥] स्थितमक्ष्णोस्तद्रूपं स्पर्शो ह्यङ्गेषु जल्पितं श्रवसोः (कर्णे)। हृदयं हृदये निहतं वियोजितं किमिह दैवेन ॥ ३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org