________________
६४
काव्यमाला।
पथिकानां मनोमोहनं यथा भवति तथा गोपी गायति । मधुकरझंकारसहकारेण गीतेमधुरगभीरनादिता पवनेन तद्विजृम्भणं च ध्वन्यते । अत एव पथिकमनोमोहकत्वमिति भावः । अस्मद्वनितानामप्येवं विरहवेदना भविष्यतीति चिन्तया पथिकानां मनोमोहो भवतीति तात्पर्यार्थः । मलयमारुताद्युद्दीपनसामग्रीसहिते विपिने भावमयगीतिमिविरहवेदनां विनोदयन्ती सा त्वत्प्रतीक्षया तिष्ठति। उदासीनाः पथिका अपि तद्विरहेण द्रवन्ति । तत्त्वरितमिमामानन्दयेति ध्वन्यते । गृहगमनाय पथिकान्तरं त्वरयितुं पथिकस्योक्तिरिति कश्चित् ।।
अतिभूमिं गतो मानः कदाचिद्दयितस्यासह्योपि भवतीति कांचिन्मानविषये शिक्षयन्ती सखी कस्याश्चन कलहान्तरिताया वृत्तान्तमुपवर्णयति
तह माणो माणधणाएँ तीअ एमेअ दूरमणुबद्धो । जह से अणुणीअ पिओ एकग्गाम विअ पउत्थो ॥ २९ ॥ [तथा मानो मानधनया तया एवमेव दूरमनुबद्धः ।
यथा तस्या अनुनीय प्रिय एकग्राम एव प्रोषितः ॥] मानधनयाऽनुबद्धस्तया तथा मान एवमेव भृशम् ।
प्रोषित एकनामेऽप्यनुनीय यथा प्रियस्तस्याः॥२९ ।। मान एव धनं यस्याः सा मानधना तया एवमेव कारणं विनैव मानः तथा तेन प्रकारेण भृशं दूरमनुबद्धः, यथा तस्याः प्रियः अनुनीय एकग्रामेपि प्रोषितोऽभूदित्यर्थः। एकग्रामे विद्यमानस्यापि प्रियादर्शनाभावात्प्रवास एवेति भावः। तथा च सामान्यकारणे तावानेव मानः प्रशस्यते यावान्नासौ दयितस्यासह्यो भवेदिति सूच्यते । “निष्कारणमानग्रहनिन्दाच्छलेन दूती जारस्यागमनावसरमाह" इति गङ्गाधरटीकाऽवतरणम् ।
विदग्धवनिताः प्रियतमस्य परवनितासक्तिं चतुरचेष्टयैव निवारयन्ति न पुनः कलहैरिति वैदग्ध्यं शिक्षयन्ती काचित्सखी प्रति मधुरमाह
सालोए विअ सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाए धुअइ हसन्ती हसन्तस्स ॥ ३०॥
[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । __ अनिच्छतोऽपि पादौ धावति हसन्ती हसतः॥] सालोक एव सूर्य गृहभर्तुरनिच्छतोऽपि गृहिणीयम् ।
पश्य गृहीत्वा धावति पादौ हसतो हसन्त्येव ॥ ३० ॥ सूर्ये आलोकसहिते एव । सूर्यप्रकाशसत्तायामेवेत्यर्थः । इयं गृहिणी । गृहिणीपदेन गृहभारसंचालकतया गृहकार्यविशृङ्खलतोत्पादके कलहे विमुखत्वं सूच्यते । अन्यवनितागतचित्ततया अनिच्छतोऽपि । चातुर्येण गृह एवावस्थितिं साधयन्त्याः गृहिण्याः वैदग्ध्यमालोक्य दाक्षिण्येन हसतो गृहस्वामिनः पादौ गृहीत्वा । विदिताभिप्रायस्य दयितस्य हास्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org