________________
२ शतकम् ] संस्कृतगाथासप्तशती।
सा ते प्रिया, त्वमसि मे, तस्या द्वेष्यस्त्वमस्यहं ते च।।
बाल! स्फुटं भणामः प्रेमेदं बहुविकारमिति ॥२६॥ __ या त्वयि नानुरज्यति सा ते प्रियास्ति । त्वं मे प्रियोऽसीति लिङ्गविपरिणामेनान्वयः। अन्यनायके दत्तचित्तायास्तस्यास्त्वं द्वेष्योऽसि । अहं च ते, द्वेष्याऽस्मीति विपरिणामेनानुषङ्गः । [अत एव ] बाल ! उचितानभिज्ञतया नितान्तमप्रौढ ! इदं प्रेम बहुविकारम् , प्रकृतिभेदानुसारेण बहुप्रकारमिति स्पष्टं कथयाम इत्यर्थः । अनुरक्तां मां विहाय तस्यामननुरक्तायां तव प्रणयः कियद्रसोचितः, अहं च त्वां तथापि तयैव स्नेहदृशा पश्यामीति प्रेमचरितं त्वमेव प्रौढ्या विचारयेति व्यङ्गयोऽर्थः । __कान्तस्य नितान्तमनुरागमात्मनश्च सौभाग्यं लज्जाशीलतां च सूचयन्ती काचित्स्वाधीनभर्तृका पादयोरलक्तकं विन्यस्यन्तीं प्रसाधिकामाह
अहअं लजालुइणी तस्स अ उम्मच्छराइँ पेम्माई । सहिआअणो वि णिउणो अलाहि किं पाअराएण ॥ २७॥ [अहं लजालुस्तस्य चोन्मत्सराणि प्रेमाणि ।
सखीजनोऽपि निपुणोऽपगच्छ किं पादरागेण ॥] एषाहं लजालुः प्रेमाण्युन्मत्सराणि किल तस्य ।
आलीगणोपि निपुणोऽपगच्छ कि पादरागेण ॥ २७ ॥ तस्य मद्दयितस्य प्रेमाणि उन्मत्सराणि खल्पस्यापि संगमविघ्नस्याऽसहनतया उत्कटानि सन्ति । सखीगणोपि निपुणः किञ्चिचिह्नमात्रेण सर्वं रहस्यं जानातीत्यर्थः । 'अलाहि' शब्दो निवारणे। अतः अपेहीत्यर्थः। चरणयोररुणिम्नः स्वतःसिद्धतया पादरागेण किं प्रयोजनमित्यर्थः । लाक्षारसे पादयोर्विन्यस्तेऽपि स्वल्पमपि संगमविघ्नमसहमानो दयित. स्तादृशीमेव संगमकेलौ मां व्यापारयिष्यति, ततश्च प्रियस्योदरादिषु चरणचिह्नोदयेन सखीजनः सर्वमिदमवगत्य मां लज्जयिष्यति, अहं च लजाशीलास्मीति किं मुधानेन पादरागेणेत्याशयः। "उन्मत्सराण्युद्भटानि । उदरालक्तकादिष्वव्याजप्रवृत्तानीत्यर्थः” इति तु दुर्बोधेव गङ्गाधरटीका। अरण्ये दत्तसंकेता सा तिष्ठति । त्वरितमिमामनुसरेति सूचयन्ती दूती जारं प्रत्याह
महुमासमारुआहअमहुअरझंकारणिब्भरे रण्णे । गाअइ विरहक्खरॉबद्धपहिअमणमोहणं गोवी ॥ २८ ॥ [मधुमासमारुताहतमधुकरझंकारनिर्भरेऽरण्ये ।
गायति विरहाक्षराबद्धपथिकमनोमोहनं गोपी ॥1 मधुमासमारुताहतमधुकरझंकारनिर्भरेऽरण्ये ।
गायति विरहाक्षरकृतपथिकमनोमोहनं गोपी ॥ २८ ॥ मधुमासमारुतेन आहते, मधुकरझंकारेण पूरिते अरण्ये। विरहसूचकैरक्षरैः कृतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org