________________
काव्यमाला।
[कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके।
अथ भवति कस्य विरहो विरहे भवति को जीवति ॥] कैतवरहितं मातुलि नास्त्येव प्रेम मानुषे लोके।
अथ भवति कस्य विरहो विरहे वा भवति जीवति कः ॥ २४ ॥ येषां निर्मायं प्रेम भवति, तेषु कस्य विरहो भवति ? न कस्यापीत्यर्थः । अन्योन्यानुरागमात्रजीवितयोः क्षणमदर्शनमप्यसहमानयोः कथं वा विरहः खेच्छया स्यादिति भावः । दैववशाद्विरहे भवति जायमाने वा को जीवति ? न कोपीत्यर्थः। तद्विरहेप्यहं जीवामि, सोपि च मामपहायान्यत्र तिष्ठति, इति प्रेम्णो निष्कतवत्वमविश्वसनीयमिति भावः। 'मानुषे लोके' इत्यनेन एवंविधस्य प्रणयस्य लोकोत्तरता सूचिता।
कामिनीजनमनोहरणार्थमात्मनः कामुकतातिशयं ख्यापयन् रसिकताभिमानी कश्चिद् भुजङ्गः कस्याश्चन कुलसरोजदृशः स्नानसमयेऽङ्गप्रक्षालनार्थ वस्त्रपरिवर्तनार्थमुद्घाटितसुन्दरावयवदर्शनेनात्मनः परितोषमेवमाह
अच्छेरं व णिहिं विअ सग्गे रजं व अमअपाणं व । आसि म्ह तं महत्तं विणिअंसणदंसणं तीए ॥ २५ ॥
[आश्चर्यमिव निधिमिव स्वर्गे राज्यमिवामृतपानमिव । ___ आसीदस्माकं तन्मुहूर्त विनिवसनदर्शनं तस्याः ॥] आश्चर्यमिव च निधिरिव दिवि राज्यमिवालममृतपानमिव ।
आसीन्मुहूर्तमिव नस्तद्विवसनदर्शनं तस्याः ॥२५॥ नः अस्माकं तस्याः सुन्दर्याः तद्विवसनदर्शनं तादृशं विवसनं दर्शनम् । विवस्त्रायास्तस्या अवलोकनभिति वाऽर्थः । इह अस्मिन् लोके । आश्चर्यमिव लोकोत्तरत्वादद्भुतमिव । परमसुखकरत्वानिधिरिव । प्राकृते लिङ्गविभक्त्यादेर्नियमाभावात् 'णिहिं व' [निधिमिव ] इति प्रयुक्तम् । अलौकिकभूमिकास्पात् निधीश्वरत्वलाभाद्वा दिवि स्वर्गे राज्यमिव । मदनहुतवहक्लान्तसकलशरीरनिर्वृतिजनकत्वात् निरतिशयतृप्तिकारकत्वात् विलीनानामपि मनोभावानामुज्जीवनाच्च अलं पर्याप्तम् अमृतपानमिव आसीत् । एतादृशभावुकोपि भवतीः कामयत इत्यहो भवतीनां सौभाग्यमिति शृण्वत्कामिनीभ्यो ध्वन्यते।
सपत्न्यां द्वेषम् , आत्मनि चानुरागमुत्पादयितुं काचिनिपुणा नायिकान्तरासक्तमस्थिरप्रेमाणं नायकमेवमाह
सा तुज्झ वल्लहा तं सि मज्झ वेसो सि तीअ तुज्झ अहम् । बालअ फुडं भणामो पेम्मं किर बहुविआरं त्ति ॥ २६ ॥ [सा तव वल्लभा त्वमसि मम द्वेष्योऽसि तस्यास्तवाहम् । बालक स्फुटं भणामः प्रेम किल बहुविकारमिति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org