________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
वनदवमसीमलिनितो राजति विन्ध्यो घनैर्धवलैः । मधुमथनः क्षीरोदधिमथनोद्धतदुग्धसिक्त इव ॥ १७ ॥ उज्वलोपि वनदवकालिम्ना मलिनीकृतो विन्ध्यः, जलाऽपायाद्धवलैर्घनैः क्षीरोदधेर्मथनेन उद्धतम् उच्छलितं यद्दुग्धं तेन सिक्तः श्रीकृष्ण इव राजति । वनदवेत्याद्युक्त्या मार्गावरोधितृणकण्टकादिदाहान्मार्गस्य सुगमता सूच्यते ॥
गुणानुरागादपि सचेतसां चित्तवृत्तिराकृष्टा भवति, न पुनः सर्वत्र समागम एव कामनीय इति चक्षुरागादिभिर्नायिकायाः परपुरुषानुरागमाशङ्कमानं नायकं प्रति सखी आह
आह
2
बन्दीअ हिअबन्धवविमणाइ वि पक्कलो ति चोरजुआ । अणुराण पलोइओं गुणेसु को मच्छरं वहइ ॥ १८ ॥
[ वन्द्या निहतबान्धवविमनस्कयापि प्रवीर इति चोरयुवा । अनुरागेण प्रलोकितो गुणेषु को मत्सरं वहति ॥ ] वन्द्या प्रवीर इति हतबान्धवविमनस्कयापि चोरयुवा । अवलोकितोऽनुरागाद् गुणेषु को मत्सरं वहति ॥ १८ ॥
५९
हतबान्धवत्वेन विमनस्कयापि बन्द्या, प्रत्यक्षदृष्टशौर्यानुभावतया प्रवीर इति कृत्वा चोरयुवा अनुरागाद्विलोकितः, न तु सुरताऽभिलाषादिति भावः । गुणेषु को मात्सर्य वहतीत्यर्थान्तरन्यासेन 'गुणवशंवदं स्वत एव चित्तमाहियते, न पुनस्तत्र सहृदयैरन्यथा शङ्कनीयम्' इति सूच्यते ।
व्याधवध्वाः सौभाग्यवर्णनेन नायकान्तरस्य तत्राऽनवकाशं सूचयन्ती काचिहूती
Jain Education International
अज कमो वि दिअहो वाहवहू रूवजोवणुम्मत्ता । सोहग्गं धणुरुम्पच्छलेण रच्छासु विकिरइ ॥ १९ ॥
[ अद्य कतमोऽपि दिवसो व्याधवधू रूपयौवनोन्मत्ता । सौभाग्यं धनुतष्टत्वक्छलेन रथ्यासु विकिरति ॥ ] अद्य कतमोपि दिवसो व्याधवधू रूपयौवनोन्मत्ता । तष्टधनुस्त्वक्छलतो विकिरति रथ्यासु सौभाग्यम् ॥ १९ ॥
अद्य कियन्तिचिद्दिनानि व्यतीतानि, रूपयौवनाभ्यामुन्मत्तेव व्याधवधूः । रूपयौवनवशीकृतस्य दयितस्य सतत सुरतासक्तिकृत दौर्बल्यादाक्रष्टुमशक्यतया तष्टस्य कृतावतक्षणस्य धनुषः त्वक्छलेन सौभाग्यं रथ्यासु विकिरति इतस्ततः प्रक्षिपतीत्यर्थः । रथ्यासु विकिरतीत्यनेन सौभाग्यस्य सुलभता सूचिता । इतस्ततो रथ्यापर्यन्तं व्याधवधूसौभाग्यं सुप्रसिद्धं त्वं कथमजानन्निव तत्र यतस इति भावः । 'रुम्प' शब्दस्य अभिनवजाता सूक्ष्मा
For Private & Personal Use Only
www.jainelibrary.org