________________
काव्यमाला।
सवत्थ दिसामुहपसॉरिएहिँ अण्णोण्णकडअलग्गेहिं । छल्लिं व मुअइ विञ्झो मेहेहिँ विसंघडन्तेहिं ॥ १५ ॥ [सर्वत्र दिशामुखप्रसृतैरन्योन्यकटकलग्नैः ।
छल्लीमिव मुञ्चति विन्ध्यो मेधैर्विसंघटमानैः ॥] अन्योन्यकटकलग्नैः सर्वत्र दिशामुखेषु विसरद्भिः।
छल्लीमिव वत मुञ्चति विन्ध्यो मेधैर्विघटमानैः ॥ १५ ॥ अन्योन्यं कटके पर्वते नितम्बे लग्नैः, पर्वते निबिडमामिलितैरिति यावत् । पुनर्विघटमानैर्विश्लिष्यद्भिः, अत एव सर्वेषु दिशामुखेषु व्याप्नुवद्भिर्मेधैः, विन्ध्यः छल्लीमिव वल्कलमिव मुञ्चति । यथा कश्चनोपरितनं वल्कलं विमुच्याभिनवो भवति तथा विन्ध्यो मेघाडम्बरं त्वचमिवावमुच्य नवां सुषमां धारयतीति भावः । तथा चैवंविधे विरहिजनदुरन्ते घनसमयेपि किं भवता प्रस्थातव्यमिति निमृतं गमननिरोधो ध्वन्यते । 'छल्ली वीरुधि सन्ताने वल्कले कुसुमान्तरे' इति मेदिनी । गाथान्तरेपि तमेवार्थ भझ्यन्तरेणाह
आलोअन्ति पुलिन्दा पवअसिहरहिआ धणुणिसण्णा । हत्थिउलेहि व विझं पूरिजन्तं णवब्भेहिं ॥१६॥ [आलोकयन्ति पुलिन्दाः पर्वतशिखरस्थिता धनुर्निषण्णाः।
हस्तिकुलैरिव विन्ध्यं पूर्यमाणं नवाथ्रः ॥] परिपश्यन्ति पुलिन्दाः पर्वतशिखरस्थिता धनुःसक्ताः।
हस्तिकुलैरिव विन्ध्यं विपूर्यमाणं नवाम्भोदैः ॥ १६ ॥ पर्वतशिखरे स्थिताः धनुषि सक्ताः, क्षितितलनिहितकोटिकं चापमवलम्ब्य स्थिता इत्यर्थः। पुलिन्दाः शबराः। वर्णेन ध्वनिना देहमहत्त्वेन च गजयूथसदृशैर्नवाभ्रर्विपूर्यमाणं विन्ध्यमालोकयन्ति, उपरिशिखरे हस्तिकुलैरिव पूर्यमाणं विन्ध्यं कुञ्जरमृगयासक्ता अपि धनुर्निषण्णा एव साश्चर्यमालोकयन्तीति भावः । शबराणां पर्वतेऽवस्थानान्न विन्ध्यवनेऽभिसारसंभव इति नायिकाया जारं प्रत्युक्तिरिति केचित् ॥
प्रशान्तमार्गान्तरायः संनिहितः प्रियोपगमनयोग्यः शरत्समय इति प्रोषितपतिका सान्त्वयन्ती सखी वर्षावसानमाह
वणदवमसिमइलङ्गो रेहइ विञ्झो गणेहिँ धवलहिं ।। खीरोअमन्थणुच्छलिअदुद्धसित्तो व महुमहणो ।। १७ ॥ [वनदवमपीमलिनाङ्गो राजते विन्ध्यो घनैर्धवलैः । क्षीरोदमथनोच्छलितदुग्धसिक्त इव मधुमथनः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org