________________
२ शतकम् ] संस्कृतगाथासप्तशती।
ते विरलाः सत्पुरुषाः स्नेहो येषामभिन्नमुखरागः।
अनुदिवसवर्धमानः पुत्रेष्वृणमिव हि संक्रामेत् ॥ १३ ॥ न भिन्नो मन्दीकृतो मुखरागो मुखप्रसादो यत्र, एवंभूतो येषां स्नेहः अनुदिवसं क्रमेणोपचीयमानः सन् [ न तु प्रारम्भगुवी खलमैत्रीव सहसैव वर्धमानः ] ऋणमिव पुत्रेषु संक्रामेत् अवतरेत् । अन्तेपि न विलीयते किन्तु उत्तमर्णाय देयतया ऋणं यथा पुत्रेषु संक्रामति, तथा वंशपरम्परया अग्रेप्यनुवर्तत इत्यपरिहरणीयत्वं सुजनस्नेहस्य सूचयति । पुत्रेष्विति बहुवचनेन वंशव्यापकत्वं सुजनस्नेहस्य ध्वनितम् । इह तु 'पुत्रेषु संक्रामेत्' इत्युक्त्या 'प्रसवोत्तरमपि मयि तथैव स्निह्यतां, न वक्षोजादिशैथिल्येन विमनाय्यताम् , प्रत्युत स्वीयबुद्ध्या सन्ततावपि स्नेहोनुवर्तयितव्यः' इति स्वसमीहितमभिव्यनक्ति । पितृकृतस्य ऋणस्य परिशोधो यथावश्यकस्तथा स्नेहनिर्वाहोपीति पुत्राणां कर्तव्यभारं ध्वनयितुमृणपदोपादानम्। 'अनुवर्तेत' इत्यायनुक्त्वा संक्रामेदित्यनेन 'पितरि यः स्नेह आसीत्स एवाविकलं पुत्रेषु गच्छेत्' इति स्नेहस्याऽकिञ्चित्परिवर्तनीयत्वं ध्वन्यते।
काचिजनसमक्षमेव प्रकटितप्रणयभावां निजसखी शिक्षयन्ती कृष्णानुरक्तगोप्याः परमनैपुण्यमाह
णचणसलाहणणिहेण पासपरिसंठिआ णिउणगोवी । सरिसगोविआण चुम्बइ कवोलपडिमागअं कह्नम् ॥ १४ ॥ [नर्तनश्लाघननिभेन पार्श्वपरिसंस्थिता निपुणगोपी।
सदृशगोपीनां चुम्बति कपोलप्रतिमागतं कृष्णम् ॥] नृत्यश्लाघननिभतः पार्श्वे परिसंस्थिता निपुणगोपी।
समगोपीनां चुम्बति कपोलविम्बागतं कृष्णम् ॥ १४ ॥ समीपे स्थिता निपुणा गोपी, समगोपीनां समीपस्थित्या सदृशीनां गोपीनां कपोले बिम्बेन प्रतिबिम्बरूपेणागतम् । तथा च गोपीषु पार्श्वस्थितास्वपि चुम्बनानुभावं चातुर्येण पिदधातीत्यर्थः। समगोपीनामित्यस्य कृष्णानुरागितया सदृशीनां गोपीनामित्यप्यर्थः । तथा च अनुरक्तानामपि पुरतः खानुरागं वैदग्ध्येन न तथा प्रकाशयति, त्वं तु साधारणानामपि समक्षमुद्भटभावा भवसीति भावः। अथवा नृत्यकर्मणा सदृशीनां गोपीनाम् 'सम्यगियं नृत्यति' इति कर्णे कथनापदेशेनेत्यर्थः। अत्र गोपीनामिति बहुत्वेन प्रत्येक गोपीनां नृत्यश्लाघनसंभवेन असकृच्छम्बनेपि न रहस्यभङ्गः प्रत्युत तत्कृतो नायिकायाः कृष्णालम्बनः प्रेमातिशयो ध्वन्यत इत्याकूतम् । किं च 'निपुणगोपी समगोपीनाम्' इत्यस्य निपुणत्वेन समानां गोपीनामिति वार्थः ।।
विजृम्भमाणेस्मिन् जलदकाले कथं त्वया गन्तव्यमिति ध्वनयन्ती कान्तं प्रति काचिद्वर्षागममाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org