________________
६०
त्वग् अर्थः । ‘धणुरम्प॰ ' इति पाठं स्वीकुर्वन् कुलबालदेवस्तु 'रम्प' शब्दः कच्छे वर्तत इत्याह । अतिसुरतासक्तं मित्रं प्रति तन्निवृत्त्यर्थं सहचरोक्तिरिति कश्चित् । एतमेवार्थं प्रकारान्तरेणाह—
काव्यमाला |
उक्खिप्पर मण्डलिमारुएण गेहङ्गणाहि वाहीए । सोहग्गधअवडाअ व उअह धणुरुम्परिञ्छोली ॥ २० ॥
[ उत्क्षिप्यते मण्डली मारुतेन गेहाङ्गणाद्व्याध स्त्रियाः । सौभाग्यध्वजपताकेव पश्यत धनुःसूक्ष्मत्वक्पङ्किः ॥ ] उत्क्षिप्यतेऽद्य मण्डलमरुता व्याधस्त्रिया गृहाङ्गणतः । सूक्ष्मधनुस्त्वक्पङ्किः सौभाग्यध्वजपताकेव ॥ २० ॥
मण्डलाकारवाहिना मारुतेन ( 'भभूलिया' इति ख्यातेन ) । सूक्ष्माः याः धनुषस्त्वचस्तासां परम्परा । उपरि प्रस्फुरत्तया सौभाग्यवैजयन्तीव उड्डाय्यते । तदेतत्पश्यति प्राकृतच्छायानुसार्यर्थः । आत्मनो विज्ञताप्रकाशनार्थं नागरिकस्य निजसहचरं प्रत्युक्तिरिति कश्चित् ।
'कथनं विनापि चिह्नेनैव चतुराः कंचिदर्थमवबुध्यन्ते' इति निजसखीमिङ्गितचातुर्यमवबोधयन्ती काचिदेवमाह-
गअगण्डत्थलणिहसणमअमइलीकअकरञ्जसाहाहिं ।
एती कुलहराओ णाणं वाहीअ परमरणम् ॥ २१ ॥ [ गजगण्डस्थलनिघर्षणमदमलिनी कृत करञ्ज शाखाभिः । आगच्छन्त्या कुलगृहाज्ज्ञातं व्याधस्त्रिया पतिमरणम् ॥ ] गजगण्डस्थल घर्षणमदमलिनीकृतकरञ्ज शाखाभिः । आयान्त्या कुलगेहाज्ज्ञातं व्याधस्त्रिया हि पतिमरणम् ॥ २१ ॥ कुलगृहात् पितृगृहात् । आयान्त्या व्याधस्त्रिया | गजानां गण्डस्थलघर्षणे सति निषक्तो यो मदस्तेन मलिनीकृताभिः करञ्जशाखाभिः । पतिभयेन दूरं पलायितानां गजानां पुनरागत्य मदस्रवणेन पतिमरणमनुमितमित्यर्थः । तज्जीवितदशायां तत्रागमनम्, आगमनेपि मदस्रवणमनुपपन्नम्, ततश्च ममाऽभावे महावीरः स विपन्न इति भावः । नायिकान्तरासक्तस्य पूर्वमिव गजमारणासामर्थ्यान्मत्सरैर्गजैः स व्यापादयिष्यत इति निश्चितमित्यर्थ इति कश्चित् ।
वनचारिणोपि पूर्वप्रेमानुवृत्तिं न विस्मरन्ति किं पुनः सहृदया इति पूर्वप्रियाप्रणयानुवृत्त्यर्थं काचिद्दूती नायकमाह
ववहुपेम्मतणुओ पणअं पढमघरणीअ रक्खन्तो । आलिहिदुष्परिल्लं पि घोड़ रण्णं धणुं वाहो ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org