________________
५४
काव्यमाला |
हलिकस्नुषा हि गृहपतिसुतमनुगोदातटस्थितं वीक्ष्य | आरब्धाऽवतरीतुं सा दुःखोत्तारया बत पदव्या ॥ ७ ॥ अनुगोदातटस्थितम् । गोदातटसमीपे स्थितं गृहपतिसुतं निजदयितं वीक्ष्य | सा दुःखोत्तारया दुःखेनावतरणं यस्यामीदृश्या पदव्या मार्गेण अवतरीतुमारब्धा बत । नदीपूरे गच्छन्तीं पदस्खलनतो निमज्जन्तीं मामयमवलम्बते न वेति परीक्षार्थं विषममार्गेणाऽवतरीतुमारब्धेत्याशयः । हालिकनुषाया गृहपतिसूनोश्च 'हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यताम्' इति अभिप्रायात्सोयं भावो नामालङ्कारः, कार्यद्वाराऽप्रकटनात्सोयं निरुद्धेदश्चेति स० कण्ठाभरणे भोजः ( ३ परि. ४३ ) ।
मनोभिलषिते नायके शृण्वति तत्प्रलोभनार्थमात्मनः सौभाग्यं श्रावयन्ती कापि सखी माह
चलणोआसणिसण्णस्स तस्स भरिमो अणालवन्तस्स । पाअङ्गुडा वेट्ठिअकेस दिढाअड्डणसुहेल्लिम् ॥ ८ ॥
[ चरणावकाशनिषण्णस्य तस्य स्मरामोऽनालपतः ।
पादाङ्गुष्ठावेष्टितकेशदृढाकर्षणसुखम् ॥ ]
चरणान्तिकपतितस्यानालपतस्तस्य संस्मरामोऽद्य । पादाङ्गुष्ठावेष्टितकेशदृढाकर्षणातिसुखकेलिम् ॥ ८ ॥
प्रणयको पेनाऽनुनयममानयन्त्या मम प्रसादनार्थं चरणान्तिकपतितस्य । पतितस्यैव हि केशाः पादाङ्गुष्ठेनावेष्टयितुं शक्यन्ते न निषण्णस्य । भयवशादनालपतः न त्वभिमानेन । मदीयपादाङ्गुष्ठेनावेष्टितानां केशानां दृढाकर्षणेन जाता या तस्यातिसुखकेलिस्ताम्, अद्य संस्मरामः । मम रूपगुणवशीकृतो दयितो मामेवमनुवर्तते, सैवाहं त्वां कामये, अत एव पश्य ते सौभाग्यमिति जारं प्रत्यभिव्यज्यते । संस्मराम इति बहुवचनेन स्मरणसामान्यताप्रदर्शनेनात्मनो वचनेऽकृत्रिमता प्रकाश्यते ।
'संकेतस्थाने संप्रति कश्चित्पथिकोऽवतिष्ठते' इति जारं श्रावयितुं काचित्कुलटा सखीमाह
फालेइ अच्छभल्लं व उअह कुग्गामदेउलद्दारे । हेमन्त आलपहिओ विज्झाअन्तं पलालग्गिम् ॥ ९ ॥
[ पाटयत्यच्छभलमिव पश्यत कुग्राम देवकुलद्वारे । हेमन्तकाल पथिको विध्मायमानं पलालाग्निम् ॥ ]
भल्लमिव पाठयति भोः पश्यत कुग्रामदेवकुलनिकटे । हेमन्तकालपथिको निर्वान्तं किल पलालाग्निम् ॥ ९ ॥ हेमन्तकालस्य पथिकः । कुप्रामे यद्देवकुलं तस्य निकटे, द्वार इत्यर्थः । निर्वान्तम्
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org