________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
५५
( विध्मायन्तम् ) पलालाग्निं फलशून्यत्रीहिनालाग्निं किल भल्लमिव भहूकमिव पाटयति इति भोः पश्यत । हेमन्तकाले न कुत्रापि शीतनिवारणोचितः पथिकनिवासो लभ्यत इति कुग्रामता । पलालकूटेऽग्नौ दीयमाने तृणानि दग्ध्वा द्रुतमेव स निर्वाति । निर्वाण तस्मिन् पलालभस्मकूटो दग्धतृणश्यामतन्तुसंवलितत्वेनोपरिभागे श्यामः, फूत्कारेणान्तनौ दृष्टे सति लोहितभागदर्शनाद्रक्त इति पाट्यमानस्य भल्लूकस्य साम्यं स्वाभाविकरीत्या संघटत इत्याशयः । 'नाडी नालं च काण्डोsस्य पलालोsस्त्री स निष्फलः' इत्यमरः । एवं च पथिकसत्ता संकेतस्थाने नाधुना संगन्तुं शक्यते । हेमन्तकाले च पथिको न रात्रौ प्रस्थास्यते, तथा च नाद्य समागमो भावीति भूयानर्थोऽभिव्यज्यते ।
ग्राम तडागसमीपे कयोश्चित्संकेत आसीत् । तत्र किञ्चिच्छेषायामेव रात्रौ ' जनकरा - Sनालोडितं विमलजलमानयामि' इति व्याजेनाऽऽगता नायिका जारेण विप्रलब्धा । ततोsपरदिने ' अहं तत्र गताऽभूवम्' इति जारं श्रावयन्ती पितृष्वसारमुद्दिश्य तत्र दृष्टाद्भुतकथनच्छलेनाह—
कमलाअरा ण मलिआ हंसा उड्डाविआ ण अ पिउच्छा । केणॉवि गामतडाए अन्भं उत्ताणअं व्यूढम् ॥ १० ॥
[ कमलाकरा न मृदिता हंसा उड्डायिता न च पितृष्वसः । केनापि ग्रामतडागे अभ्रमुत्तानितं क्षिप्तम् ॥ ]
कमलाकरा न मृदिता हंसा नोड्डायिताः पितुर्भगिनि । ग्रामतडागे केनचिदभ्रमिहोत्तानितं क्षिप्तम् ॥ १० ॥
हे पितृष्वसः ! ग्रामतडागे केनचित् अभ्रमाकाशं पतनसमये अनुत्तानमपि उत्तानीकृत्य क्षिप्तम् । एवं सत्यपि कमलोपमर्दनादिकं न जातमित्यद्भुतम् । ततश्च 'अतिप्रत्यूषेहं तत्र गता, त्वं तु न गतः । यदि त्वं गतोऽभविष्यस्तर्हि हंसा न निभृतमस्थास्यन्' इति जारं प्रत्युपालम्भगर्भोऽयमर्थोऽभिव्यज्यते । 'विमलजल प्रतिबिम्बितस्याकाशस्योत्तानतया भानादियमुत्प्रेक्षेति' गङ्गाधरः । प्रतीयमानमपि जलधरप्रतिबिम्बदर्शनं वाच्यस्याङ्गमिति नात्र ध्वनिव्यवहारः, किन्तु गुणीभूतव्यङ्ग्यव्यवहारः, वाच्येन विस्मयविभावरूपेण मुग्धमातिशयप्रतीत्या चारुत्वनिष्पत्तेरिति ध्वन्यालोके सेयमुदाहृता ( २ उद्योतः ३४ ) ।
जार प्रवासवार्ताश्रवणेन विमनस्कतया गृहकृत्येष्वसजमानां सपत्नीं प्रति ईष्र्योपालम्भसंभृतं वयोज्येष्ठा सपत्नी आह
केण मणे भग्गमणोरहेण संलाविअं पवासोति । सविसाइँ व अलसाअन्ति जेण बहुआऍ अङ्गाई ॥ ११ ॥ [ केन मन्ये भग्नमनोरथेन संलपितं प्रवास इति । सविषाणीवाल सायन्ते येन वध्वा अङ्गानि ॥ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org