SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यमाला। बहुपुष्पभारनामितभूमीगतशाख शृणुहि विज्ञप्तिम् । अपि विगलिष्यसि गोदातीरविकटकुञ्जमधुमधूक शनैः ॥३॥ बहुपुष्पभरेण अवनामिताः अत एव भूमिगताः शाखा यस्य ईदृश ! अयि गोदावरीतीरविकटकुञ्जस्य मधुरमधूकतरो! शनैः क्रमेण विगलिष्यसि, शनैः शनैः पुष्पाणि प्रस्रोध्यसे, येनाहमेकाकिनी सर्वाणि तानि अधूल्यवलुण्ठनमवचिनोमीत्याशयः। बहुपुष्पभारेतिसंबोधनेन बहोः कालादुत्कण्ठिततया संधुक्षितबहुलवीर्योपि गोदातटादिदत्तमनस्कतया चिरात्स्खलिष्यति, यतो हि विकटतया जनसंचारशून्येस्मिन् गोदानिकुञ्ज पुष्पावचयव्याजेन समागतया चिरं मया रंतव्यमित्यभिलाषोऽभिव्यज्यते। मधूके मधुविशेषणेन कामनीयत्वातिशयः प्रकाश्यते । मधूककुसुमावचयव्याजेन संगमसुखं साधयन्या कयाचिन्मधूकतरुसमीपगतो निकुञ्जः संकेतस्थलं नियमितमभूत् । क्रमेण कुसुमेषु न्यूनीभूतेषु तदवचयमिषेण तत्रागमनमपि दुःसंभवमित्यवशिष्टानि कुसुमान्यवचिन्वती रुदतीं काञ्चन सुदी दृष्ट्वा रसिकपौरः सहचरमाह णिप्पच्छिमाइँ असई दुःखालोआ महुअपुप्फाई। चीए बन्धुस्स व अहिआइँ रुअई समुच्चिणइ ॥ ४ ॥ [निष्पश्चिमान्यसती दुःखालोकानि मधूकपुष्पाणि । __ चितायां बन्धोरिवास्थीनि रोदनशीला समुच्चिनोति ॥] निष्पश्चिमानि दुःखालोकान्यसती मधूककुसुमानि । अस्थीनीव चितायां बन्धो रुदती समुच्चिनुते ॥४॥ निष्पश्चिमानि सर्वान्तिमानि, परिशिष्टानीत्यर्थः। दुःखालोकानि कुसुमावचयव्याजेन लभ्यस्य जारसमागमस्य तदभावे दुर्लभत्वाद्दुःखेन आलोकयितुं शक्यानि मधूकपुष्पाणि, चितायां बन्धोरस्थीनीव । तान्यपि न पुनदर्शनीयानीति बन्धुप्रेम्णा रुदद्भिः संचीयन्ते । असती रुदती सती समुच्चिनोति । __ बहीषु संसक्तत्वेनास्थिरप्रणयतया निजवचनमविश्वसन्ती नायिकामनुकूलयितुं कश्चिद्विदग्धनायको हृदयामन्त्रणव्याजेनाह ओ हिअअ मडहसरिआजलरअहीरन्तदीहदारु व । ठाणे ठाणे विअ लग्गमाण केणावि डज्झिहसि ॥५॥ [हे हृदय स्वल्पसरिजलरयह्रियमाणदीर्घदारुवत् । स्थाने स्थाने एव लगत्केनापि धक्ष्यसे ॥] स्वल्पसरिजलवेगह्रियमाणसुदीर्घदारुवनूनम् । स्थाने स्थाने विलगत्संप्रति केनापि धक्ष्यसे हृदय ॥५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy