________________
२ शतकम् ] संस्कृतगाथासप्तशती।
विगलति मुहुधृतोऽप्ययमुपदेशो दीयमान आलीभिः।
हृदयेस्या मकरध्वजबाणाऽऽहतिजर्जरे नूनम् ॥१॥ आलीभिः प्रियसखीभिर्दीयमानः, अनया च प्रियसखीविश्रम्भेण मुह तोपि 'इदानीं मानमवलम्बिष्ये' इति चेतसि स्थिरीकृतोपि । मुहुरित्यनेन 'प्रियमुखावलोकने मानं विस्मरति पुनः सख्युपदेशस्मरणेन तं दृढयति' इति ध्वनितम् । अयं मानोपदेशः कामशरप्रहारजर्जरे अस्या हृदये नूनं विगलति नीचैः पतति, नावतिष्ठत इत्यर्थः । तथा च मनसो विवशता ध्वन्यते । दीयमान इति वर्तमानार्थकेन शानचा, धृत इति भूतार्थ सूचयता क्तेन च 'सखीभिर्यदा उपदेशो दीयमान एव भवति, न तदनन्तरं कालविलम्बो भवति, तस्मिन्नेव क्षणे चेतो दृढीकृत्य तमुपदेशमियमधरत् , परं धृतोऽप्ययं गलति' इति कामशरप्रगुणीकृतो नायिकानुरागातिशयो द्योत्यते। मूलपदाङ्कानुरोधे 'विगलति धृतो धृतोपि' इति पाठ्यम् ।
नदीतटनिकुञ्जे कृतसंकेतेन कान्तेन विप्रलब्धा काचिन्नायिका 'अहं तत्र गताऽभूवम् , सरित्यूरेण संकेतस्थानं नौ भमम्' इति जारं सूचयन्ती सखीमाह
तडसंठिअणीडेक्कन्तपीलुआरक्खणेकदिण्णमणा । अगणिअविणिवाअभआ पूरेण समं वहइ काई ॥२॥ [तटसंस्थितनीडैकान्तशावकरक्षणैकदत्तमनाः ।
अगणितविनिपातभया पूरेण समं वहति काकी ॥] तटसंस्थितनीडान्तरशावकपरिरक्षणैकदत्तमनाः ।
अगणितविनिपातभया पूरेण समं वहति काकी ॥२॥ तटसंस्थितस्य नीडस्यान्तरे विद्यमाना ये शावकारतेषां परिरक्षणमात्रे दत्तं मनो यया तादृशी काकी, नीडतरुमजनोत्तरं भावि विनिपातभयं मरणभयमप्यगणयन्ती सती पूरेण नवजलौघेन समं वहति, प्रवाहेण ह्रियत इति यावत् । एतेन 'अहं संकेतरक्षणार्थ नदीतटपतनसहभावि मरणभयमप्यगणयन्ती तत्र गताऽभूवम्' इति, काकीति कीपा 'स्त्रीजातेः पश्य प्रेमानुबन्धदायम्' इति च जारं प्रति द्योत्यते ।
मधूकपुष्पावचयव्याजेन कृताभिसारा कुलटा आत्मनश्चिरकालसुरताभिलाषं जाराय सूचयन्ती मधूकपादपामन्त्रणव्याजेनाह
बहुपुप्फभरोणामिअभूमीगअसाह सुणसु विण्णत्तिम् । गोलातडविअडकुडङ्गमहुअ सणिअं गलिजासु ॥३॥ [बहुपुष्पभरावनामितभूमीगतशाख शृणु विज्ञप्तिम् । गोदातटविकटनिकुञ्जमधूक शनैर्गलिष्यसि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org