________________
५०
काव्यमाला।
'गाढनिग्रहकारितया दुःखप्रदेऽपि पत्यौ कथं न विरज्यसि ? अहो ते निजसौख्यावधीरकता' इति भेदयन्तीं दूतीं प्रतिनिवर्तयितुं दयितेऽनुरागातिशयमाह काचित्पतिव्रता
दुःखं देन्तो वि सुहं जणेइ जो जस्स वल्लहो होइ । दइअणहदूणिआणं वि वड्डइ थणाण रोमञ्चो ॥ १० ॥ [दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति ।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः ॥] दुःखं दापि जनयति सुखं हि यो यस्य वल्लभो भवति ।
दयितनखदूनयोरपि रोमाञ्चो वर्धते स्तनयोः ॥ १०० ॥ यः यस्य वल्लभो भवति, स तस्य दुःखं ददत् अपि सुखं जनयतीति संबन्धः । भवतीति स्थाने 'वर्धते' इत्युक्त्या दयितकरस्पर्शेनैव प्रणयिन्याः समुद्भिद्यते रोमाञ्चः, ततो नखदाने स वर्धत इत्यतिशयो व्यज्यते । तथा च-'प्रणयरसनिर्भरेण प्रियतमेन कृतः सोयं निग्रहोपि मिथोऽनुरागं वर्धयत्येव'इति दूतीं प्रति सूच्यते ।
शतकसमाप्ती, गाथारत्नकोषस्याऽस्य प्रख्यातसुकविसंकलितत्वेनोपादेयता सूचयितुमाह
रसिअजणहिअअदइए कइवच्छलपमुहमुकइणिम्मविए । सत्तसअम्मि समत्तं पढम गाहास एअम् ॥ १०१॥ [रसिकजनहृदयदयिते कविवत्सलप्रमुखसुकविनिर्मिते ।
सप्तशतके समाप्तं प्रथम गाथाशतकमेतम् ॥] रसिकजनहृदयदयिते कविवत्सलमुखसुकविसंकलिते ।
सप्तशतके समाप्तं प्रथम गाथाशतकमेतत् ॥ १०१॥ कविवत्सलो ( हालः ) मुखमिव प्रधानं येषु ते कविवत्सलमुखाः सुकवयः, तैः परिरचिते।
द्वितीयं शतकम् ।
मानमवलम्ब्य 'कियद्वशीभूतस्ते वल्लभः' इति दयितकृतानुनयेन गवेषयखेति तव सखी शिक्षयेति वदन्तीं सखी प्रति नायिकासखी सपरिहासमाह
धरिओ धरिओ विअलइ उअएसो पिहसहीहिँ दिजन्तो । मअरद्धअबाणपहारजजरे तीऍ हिअअम्मि ॥ १॥ [तो धृतो विगलत्युपदेशः प्रियसखीभिर्दीयमानः । मकरध्वजबाणप्रहारजर्जरे तस्या हृदये ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org