________________
१ शतकम् ] संस्कृतगाथासप्तशती। नाऽनुजानीषे । अनुभव प्रवासागतदयितनिर्भरोत्कण्ठाकृतोपगृहनानि सुरतसुखानीति शिक्षयन्तीं सखीं वाधीनपतिका काचिदाह
रमिऊण परं पि गओ जाहे उवऊहिउँ पडिणिउत्तो । अहअं पउत्थपइआ व तक्खणं सो पवासि व ॥९८॥ [रन्त्वा पदमपि गतो यदोपगृहितुं प्रतिनिवृत्तः ।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥] रन्त्वा पदमपि विगतो यदा स उपगृहितुं प्रतिनिवृत्तः।
प्रोषितपतिकेवाऽहं स तत्क्षणं च प्रवासीव ॥ ९८॥ रमणोत्तरं यावता स एकपदमपि गच्छति, उत्कण्ठावशाच पुनः परिरब्धं प्रतिनिवर्तते एतस्मिन्क्षणान्तराले एवाहमात्मानं प्रोषितपतिकां प्रियतमं च प्रवासिनं भावयामि । एवं. विधेऽनुरागे का नामोत्कण्ठाविगमस्य कथा। क्षणमात्रमपि मुखाऽनवलोकने यदा प्रवासदुःखमनुभवामि, तर्हि प्रियविरहे मम जीवितस्य कियदाशेति त्वयैव बोद्धव्यमिति दृढोनुरागो ध्वन्यते। मानं धत्खेति बोधयन्तीं वयस्यां प्रति खस्य मानधारणाऽसामर्थ्य प्रदर्शयन्त्या नायिकाया उक्तिरिति कश्चित् । प्रवासानन्तरं स्त्रीपुंसयोः प्रेमपरीक्षेति स० कण्ठाभरणे भोजः (५ परि.)।
सुन्दरे सहृदये सद्व्यवहारे सानुरागे च कस्मिन्नपि यूनि जातानुरागा काचित्कुलटा निजपतिं प्रति तादृशगुणाभावजनितं वैराग्यं सूचयन्ती सखीमाह
अविइलपेच्छणिजं समसुहदुःखं विइण्णसब्भावम् । अण्णोण्णहिअअलग्गं पुण्णेहिँ जणो जण लहइ ॥ ९९ ॥ [अवितृष्णप्रेक्षणीयं समसुखदुःखं वितीर्णसद्भावम् ।
अन्योन्यहृदयलग्नं पुण्यैर्जनो जनं लभते ॥] अवितृष्णवीक्षणीयं समसुखदुःखं वितीर्णसद्भावम् ।
अन्योन्यहृदयलग्नं पुष्कलपुण्यैर्जनो जनं लभते ॥ ९९ ॥ जनः, अवितृष्णम् अनिवृत्तोत्कण्ठं यथा स्यात्तथा वीक्षणीयम् , सुन्दरमित्यर्थः । निजप्रेमिणः सुखदुःखयोः सतोरात्मनोऽपि सुखदुःखे मन्यमानं सहृदयमिति यावत् । वितीर्णः प्रकटितः सद्भावो येन, ततश्च लोकव्यवहारदक्षिणमित्यर्थः । अन्योन्यं हृदयलग्नं सानुरागमिति भावः । एवंविधगुणसंपन्नं जनं पुष्कलैः पुण्यैर्लभते। मम मन्दभाग्याया एवं विधप्रियप्राप्तिः कुत इत्याशयः । मन्दस्नेहस्य पत्युश्चित्तमनुकूलयितुं पतिव्रताया उक्तिरिति कश्चित् । “निजपतिं प्रति वैराग्यं व्यञ्जयन्ती कुलटा (तम् ) पतिमाह'इति गङ्गाधरोऽवतरणमाह।
सं. गा. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org