________________
काव्यमाला।
वर्तखेति नायकं प्रति चरमं व्यङ्ग्यम् । प्रथमानुरागानन्तरे दन्तक्षतमित्युदाजहार स. कण्ठाभरणे भोजः (परि. ५)। __ कार्यवशाद्विलम्बितस्ते दयितस्तत्समायव्यवहितमेवाऽऽगमिष्यतीति अवधिदिनसज्जीकृतसमागमसामग्री प्रोषितभर्तृकामाश्वासयन्तीं मातुलानी प्रति सा सनिर्वेदासूयमाह
दिट्ठा चूआ अग्घाइआ सुरा दक्षिणाणिलो सहिओ। कजाई विअ गरुआ मामि को वल्लहो कस्स ॥ ९७ ॥ [दृष्टाश्ता आघ्राता सुरा दक्षिणानिलः सोढः ।
कार्याण्येव गुरुकाणि मातुलानि को वल्लभः कस्य ॥] दृष्टाश्ताश्च सुराऽप्याघ्राता दक्षिणानिलः सोढः ।
कार्याण्येव गुरूण्ययि मातुलि को वल्लभः कस्य ॥ ९७ ॥ मन्मथमुन्मदयन्तः आम्राङ्कुरा दृष्टाः । कान्तेन सह वसन्तेऽस्मिन् पानगोष्ठीसुखार्थ सजीकृतायाः सुराया गन्धोऽप्यनुभूतः। कान्तसमागमार्थमङ्गान्युन्मीलयन् मलयानिल: सोढः। तथा च कार्याण्येव गुरूणि, दुःखैकभागिन्या मम जीवनस्यैतान्येव महान्ति कार्याणि । एतदनुभवार्थमेव हतजीवितं न त्यजामि । अयि मातुलि ! कः कस्य वल्लभः । येनाद्यापि तद्विरहं सहमाना जीवामि । यदि मे स वल्लभोऽभविष्यत् त_हमद्यप्रभृति जीवितमत्यक्ष्यमिति प्रियानुरागसंचारितः आत्मानं प्रति निर्वेदो ध्वन्यते । एतत्सर्वं गङ्गाधराऽनुषङ्गात् । वस्तुतस्तु
विदेशमधितिष्ठता प्रियतमेन चूताः दृष्टाः । मधुगोष्ठीगरिष्ठेऽस्मिन्वसन्ते वैधुर्यदुःखाद् यदि सुरा नावादिता भवेत्तथापि स्थाने स्थाने रसिकैः सज्जीकृता उग्रगन्धा साऽवश्यमाघ्राता। मलयानिलः सोढः । अतः अहं जानामि, अत्र कार्याण्येव उपार्जनादिप्रयोजनान्येव महान्ति । अयि मातुलि ! कः कस्य वल्लभः ? यदि स मय्यनुरक्तोऽभविष्यत् तर्हि विदेशगतान्दयितान्बलात्वस्वभवनमाकर्षन्तं तमिमं चूताङ्कुर-मलयानिलादिवसन्तसमुदयं दृष्ट्वा सर्वाणि कार्याणि दूरतः परिहृत्याऽवश्यमागमिष्यत् । अतः प्रयोजनसारे जगति कः कस्य वल्लभ इति अवधिलङ्घनविचेतसा नायिकयाऽऽत्मानं प्रति निर्वेदो ध्वनितः । यद्वा-कार्याण्येव गुरूणि, तस्य युक्त्यन्तरसमागमरूपाणि कार्याण्येव महान्तीत्यनेन अन्यासङ्गं प्रत्याक्षेपो ध्वन्यते । अन्यथा कथं वसन्तेऽपि नागतः? किं वा-कार्याण्येव गुरूणि, कः कस्य वल्लभः। तथा च तत्र स्थिताभिर्युवतिभिस्तस्य कार्यम् , देशान्तरस्थितया मया किं तस्य कार्यम् । अत एव कार्यनिबन्धनं तासामेव वाल्लभ्यं न ममेति वल्लभं प्रत्यसूया व्यज्यते । समीपस्थितं पान्थं विमोहयितुं वनायके वैराग्यं प्रदर्शयन्त्याः खयंदूत्या उक्तिरिति केचित् । सर्वदा दयितसांनिध्येन संगमे न तथाविधोत्कण्ठा । अत एव प्रियं प्रवासाय किमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org