________________
संस्कृतगाथासप्तशती ।
४७
सो णाम संभरिजइ पन्भसिओ जो खणं पि हि आहि । संभरिअवं च कअंगअं च पेम्मं णिरालम्बम् ॥ ९५ ॥
१ शतकम् ]
[ स नाम संस्मर्यते प्रभ्रष्टो यः क्षणमपि हृदयात् । स्मर्तव्यं च कृतं गतं च प्रेम निरालम्बम् ॥ ]
संस्मर्यते स नाम क्षणमपि हृदयात्पृथकृतो यो हि । स्मर्तव्यं च कृतं यदि गतं निरालम्बनं प्रेम ॥ ९५ ॥
यः क्षणमपि हृदयात्पृथक्कृतो भवेत् स नाम स्मर्यते । यस्तु रात्रिन्दिवं हृदयमधितिष्ठेत् स किं स्मर्यताम् । यदि च प्रेम स्मर्तव्यं प्रियस्मरणयोग्यं कृतं तदैव निरालम्बनं सद् गतम् । ततश्च क्षणकालमपि हृदयममुञ्चतस्तव विरहे मम काSवस्था भवेदिति प्रवासमभ्युपगच्छता त्वयैव विचार्यतामिति प्रियं प्रत्यभिव्यज्यते ॥
प्रथममनुरागातिशयं प्रदर्योपभुक्तवन्तं ततोऽन्यासक्ततया तां चिराद्विस्मृतवन्तं मन्दस्नेहं नायकमनुकूलयितुं दूती नायिकाऽनुरागमाह -
णासं व सा कवोले अज वि तुह दन्तमण्डलं बाला । उब्भिण्ण पुल अवइवेढपरिगअं रक्खइ वराई ।। ९६॥
[ न्यासमिव सा कपोलेऽद्यापि तव दन्तमण्डलं बाला । उद्भिन्नपुलकवृतिवेष्टपरिगतं रक्षति वराकी ॥ ]
न्यासमिव सा कपोलेऽद्यापि तु तव दन्तमण्डलं बाला । उद्भिन्नपुलकमण्डलवेष्टनगतमङ्ग रक्षति वराकी ॥ ९६ ॥
अङ्ग (संबोधने ) । बाला बाल्यवशात्प्रथमं त्वत्कृतशीलखण्डना सा वराकी, उद्भिन्नं यत्पुलकमण्डलं तदेव रक्षणनिमित्तं वेष्टनं तेन परिगतं परिवृतमिति यावत् । अन्योपि रक्षणीयं वस्तु वृतिवेष्टनादिना साऽवहितं रक्षति । अनेन 'तव दन्तक्षतं यदा यदा स्मरति तदा तदा रोमाञ्चितकपोलपाली भवति' इति नायकालम्बनोऽनुरागो ध्वनितः । तव दन्तमण्डलं मण्डलाकारं दन्तक्षतं न्यासमिव निक्षेपमिव अद्यापि तु रक्षति । 'बाला' इत्यनेन कृतशीलखण्डनां बालामपीमां परित्यजतस्तवाऽहो नैर्घृण्यं चाऽसौभाग्यं चेत्युपालम्भो ध्वन्यते । निःक्षेपमिव सा रक्षतीत्यनेन तस्याः सुदृढो विश्वासो यत्पुनरपि तामभ्युपगमिष्यसीति नायिकायाः सत्यप्रेमानुबन्धो ध्वन्यते । वहतीत्याद्यनुपादाय ' रक्षति' पदेन तव स्मारकरूपेण तस्मिन्नति बहुमानबुद्धिरिति सूच्यते । सा त्वेवं निष्कपटहृदया भवन्तमनुध्यायति, भवांस्तु न तत्राऽनुरज्यतीति एवंविधे शठे त्वयि मुग्धायास्तस्याः सुदृढोयमनुरागो न युक्त इति दैन्यं वराकीपदेन ध्वन्यते । ततश्च प्रथमदिनमिवाद्यापि त्वामनुध्यायन्तीं सुदृढानुरागामनुकम्पाहमिमाम्, यदि किञ्चिदपि सौजन्यमस्ति तर्हि त्वरितमनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org