________________
काव्यमाला।
परतामात्रेण तां परित्यजन् किं वा वाच्य इत्युपालम्भो ध्वन्यते। 'धृतगर्भा सेयं संप्रति नोपभोगयोग्या' इति जारं प्रति दूत्याः सूचनेति कश्चित् ।
नायकस्य विकलतातिशयमालोक्य स्वीकृतदूतीभावया मातुलान्या तस्य गुणसौन्दर्यादिषु कथितेषु तं प्रत्यनुरक्ता नायिका तामाह
अविअह्नपेक्वणिजेण तक्खणं मामि तेण दिखूण । सिविणअपीएण व पाणिएण तण विअ ण फिट्टा ॥९३ ॥ [अवितृष्णप्रेक्षणीयेन तरक्षणं मातुलानि सेन दृष्टेन ।
स्वमपीतेनेव पानीयेन तृष्णैव न भ्रष्टा ॥] दृष्टेन तेन मातुलि तत्क्षणमवितृष्णवीक्षणीयेन ।
तृष्णैव नापयाता पयसेव स्वप्नपीतेन ॥ ९३ ॥ मातुलि ! अवितृष्णम् अपरिशाम्यदभिलाषं वीक्षणीयेन तत्क्षणं दृष्टेन तेन नायकेन खमपीतेन पानीयेनेव तृष्णैव न भ्रष्टा नाऽपयाता । तदवलोकनेन नाहं परितृप्यामीति तदनुरागो द्योत्यते । अथवा समीपस्थितं जारं 'त्वदर्शनाभिलाषो मम नापयातः' इति श्रावयन्ती अन्यापदेशेन काचित्सूचयति ।
प्रथमसंकेतभङ्गं दृष्ट्वा संकेतस्थानान्तरस्थिरीकरणाय काचित्कुलटा भुजङ्गं सुजनप्रशंसाच्छलेनाह
सुअणो जं देसमलंकरेइ तं विअ करेइ पवसन्तो। गामासण्णुम्मूलिअमहावडट्ठाणसारिच्छम् ॥ ९४ ॥ [सुजनो यं देशमलंकरोति तमेव करोति प्रवसन् ।
ग्रामासन्नोन्मूलितमहावट स्थानसदृशम् ॥] देशमलङ्कुरुते यं सुजनः प्रवसंस्तमेव बत कुरुते ।
ग्रामासन्नोन्मूलितमहावटस्थानसममचिरात् ॥ ९४ ॥ सुजनो यं देशं निवासेनाऽलङ्करोति, तमेव देशं प्रवसन् देशान्तरं गच्छन् सन् ग्रामा. सन्ने ग्रामसमीपे उन्मूलितो यो महावटस्तत्स्थानसदृशं करोति । प्रोषितसुजनो देशो रहोवृत्त-विश्रमायभावाद् गुणिजनगोष्ठीविदग्धान् यथा दुःखयति तथा उन्मूलितवटस्थानमपि दुःखयतीत्यर्थः। ततश्च दिवापि दिनकरकराचुम्बितत्वेन सततान्धकारबन्धूकृतो जटागहनगोपायितो महान् वटपादपो वात्ययोन्मूलित इति किञ्चिदन्यत्संकेतस्थानं स्यादिति जारं प्रति सूच्यते।
गमनसमये 'स्मर्तव्यस्तेऽयं जनः' इति वदन्तं भविष्यत्पथिकं कान्तं प्रति प्रियतमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org