________________
१ शतकम् ] संस्कृतगाथासप्तशती।
४५ [गोपायन्ति ये प्रभुवं कुपिता दासा इव ये प्रसादयन्ति ।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः ॥] गोपायन्ति प्रभुतां येऽनुनयन्ते च दासवत्कुपिताम् ।
स्त्रीणां त एव दयिताः स्वामिन एवाऽपरे वराकाः स्युः॥९१ ॥ ये स्वकीयं प्रभुत्वं कान्ताविषये गोपायन्ति, न तु प्रकटयन्ति । अपराधेऽपि दण्डादिकं न प्रयुञ्जत इति भावः। ये च कुपितां तां दासवदधीनाः सन्तः प्रसादयन्ति, त एव महिलानां दयिताः प्रियाः । अपरे शेषाः दण्डप्रयोक्तारोऽनुनयपराङ्मुखाश्च स्त्रीणां स्वामिन एव स्युः, न वल्लभाः। अत एव वराकाः, प्रणयपरिपाकफलाऽप्राप्त्या शोचनीयास्ते इति भावः । तथा च त्वं यदि तत्प्रियतमतां कामयसे तर्हि अननुयादिषु माऽऽत्म. नोवधीरणां मन्यस्वेति ध्वन्यते । 'दूमेंति जे मुहुत्तम्' (दुन्वन्ति ये मुहूर्तम् ) इति पाठं खीकुर्वन्भोजः, गोत्रस्खलनादिना परिखेद्य नायकः प्रेमपरीक्षां करोतीति निदर्शयामास ।
पूर्वमतिप्रेमाभिनिवेशेन प्रणये प्रवृत्तम् , पश्चाद् गर्भदशायामुदासीनं नायकमुपालभमाना दूती भ्रमरव्याजेनाह
तइआ कअग्ध महुअर ण रमसि अण्णासु पुप्फजाईसु । बद्धफलभारगुरुई मालइँ एहिं परिचअसि ॥ ९२ ॥ [तदा कृतार्घ मधुकर न रमसेऽन्यासु पुष्पजातिषु ।
बद्धफलभारगुर्वी मालतीमिदानी परित्यजसि ॥] मधुकर कृतार्घ न तदा रमसे ह्यन्यासु कुसुमजातिषु भोः।
बद्धफलभारगुर्वीमधुना बत मालती परित्यजसि ॥ ९२॥ कृतः अर्घः पूजाविधिर्येन, सर्वाणि पुष्पाण्यवधीर्य कृतादरेत्यर्थः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । भो मधुकर ! मधुकरेत्यनेन केवलं मध्वाखाद एव ते प्रयोजनं न प्रणय इति ध्वन्यते । 'किअग्घ' इति पाठे कृतघ्नेत्यर्थः, तथा च मालतीकृतं परिमलोपकारं विस्मृतवत्तया अधमस्त्वमित्याक्षिप्यते । तदा तस्मिन्प्रणयसमये अन्यासु पुष्पजातिषु न रमसे । वर्तमानतानिर्देशेन 'स ते प्रणयसमयो मम चक्षुषोर्धमन् वर्तमान इव, इदानीमचिरेणैव परिवर्तसे'इत्युपालम्भो द्योत्यते । 'पुष्पजातिषु' इति जातिपदोपादानेन बहुवचनेन च 'समग्रा अपि कुसुमानां जातयः परीक्ष्य मालतीसौरभासक्तेन त्वया परित्यक्ताः' इति भ्रमरपक्षे । 'सर्वविधा अपि रमण्यो रसिकंमन्येन त्वया परीक्ष्य मत्स्वामिनीगुणासक्तेन सता सतिरस्कारमवहेलिताः, इति नायकपक्षे एवमारूढप्रणयातिशयोऽपि, इदानीमेतां परित्यजसीत्युपालम्भतिशयो ध्वन्यते । इदानीं बद्धेन फलभारेण गुर्वी मालती परित्यजसि ! फलभारगौरवेण मालत्या मकरन्दशून्यता, नायिकायाश्च विपरीतरतादियथेच्छसुरताऽक्षमत्वं व्यज्यते । तथा च पूर्व दर्शिततादृशप्रणयाऽभिनिवेशस्त्वमधुना स्वार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org