________________
४४
काव्यमाला। मुहमारुएण तं कह गोरअं राहिआएँ अवणेन्तो । एताण वल्लवीणं अण्णाण वि गोरअं हरसि ॥ ८९ ॥ [मुखमारुतेन त्वं कृष्ण गोरजो राधिकाया अपनयन् ।
एतासां बल्लवीनामन्यासामपि गौरवं हरसि ॥] त्वं कृष्ण राधिकाया मुखमरुता गोरजोऽपनयन् ।
आसामन्यासामपि गोपीनां गौरवं हरसि ॥ ८९ ॥ हे कृष्ण ! मुखमारुतेन राधिकायाः 'गोरअम्' गोरजः कपोलादिलग्नां गोधूलिमपनयन् । गोरजोऽपनयनच्छलेन कपोलादि चुम्बन्नित्यर्थः । कृष्णराधिकापदसन्निधिना 'गो'पदस्य धेनावेव शक्तः । 'गोरजः चक्षुरजः' इति गङ्गाधरः । त्वम् एतासामन्यासामपि बल्लवीनां 'गोरअम्' गौरवं हरसि, राधिकाचुम्बनेन सौभाग्यखण्डनादिति भावः । अत्रैकस्या 'गोरअं' हरन् अन्यासामपि 'गोरअं' हरसीति प्राकृते संभवन् विरोधः संस्कृतच्छायायां न निर्वोढुं शक्य इति बोध्यम् । 'यद्वा गोरअं गौरतां हरसि, अपमानेन कृष्णीकरणादिति भावः' इति गङ्गाधरः ।
बहुवारं कृतापराधमथ केवलं 'क्षमख'इत्येतावतैव क्षमापयन्तं कान्तं खण्डिता काचिदाह--
किं दाव कआ अहवा करेसि कारिस्सि सुहअ एत्ताहे । अवराहाण अलजिर साहसु कअए खमिजन्तु ॥ ९० ॥
[किं तावत्कृता अथवा करोषि करिष्यसि सुभगेदानीम् । ___ अपराधानामलज्जाशील कथय कतरे क्षम्यन्ताम् ॥] सुभग कृता अथवा यान् करोषि किं वा करिष्यसीदानीम् ।
अपराधानां कतरे क्षम्यन्तां कथय निर्दीक ॥९॥ सुभग ! बहुवल्लभत्वात्सुभगंमन्य ! 'त्वं सौभाग्यदर्पणैव खैरमाचरन्नपराधान्करोषि'इति ध्वनितम् । किं ये अपराधाः पूर्व कृताः, अथवा यान् वारितोऽपि इदानीं करोषि, अग्रे यान्करिष्यसि वा, एतेषां भूत-वर्तमान-भविष्यतां मध्ये कतरे क्षम्यन्तामिति हे अलज्जाशील ! कथय । केऽपि क्षन्तुं न शक्यन्त इति परिणतेन निषेधेन 'पूर्व ते कियन्तो. ऽपराधा न सोढाः' इति ध्वनितम् । किञ्च-'तव तथा शाट्यं यथाऽग्रेप्यपराधान्करिष्यस्येव'इति सोपालम्भसंभार संसूच्यते । अनुनयाद्यकुर्वाणं दुर्विदग्धं नायकं शिक्षयितुं दूती आह
णूमेन्ति जे पहुत्तं कुविअंदासा व जे पसाअन्ति । ते विअ महिलाण पिआ सेसा सामि विअ वराआ ॥९१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org