________________
१ शतकम् ]
संस्कृतगाथासप्तशती ।
४३
प्रणयकलहवशात्केलिसदनतो निष्क्रान्तां कान्तानुगम्यमानां कान्तां परावर्तयितुं
तत्सखी आह
www.damadiw
अवलम्बिअमाणपरम्मुहीऍ एन्तस्स माणिणि पिअस्स । पुपुल उग्गमो तुह कहेइ संमुहठिअं हिअअम् ॥ ८७ ॥
[ अवलम्बितमानपराङ्मुख्या आगच्छतो मानिनि प्रियस्य । पृष्ठपुलकोद्गमस्तव कथयति संमुखस्थितं हृदयम् ॥ ]
आगच्छतः प्रियस्य स्खाऽऽलम्वितमानतः पराङ्मुख्याः । मानिनि हृदयं कथयति पृष्ठे पुलकोद्गमस्तवाऽभिमुखम् ॥ ८७ ॥ स्वयमवलम्बितेन मानेन पराङ्मुख्याः, न तु हार्दिकेनेति भावः । तव पृष्ठे पुलको - म: अभिमुखं संमुखस्थितं हृदयम् आगच्छतः प्रियस्य कथयति । उपरितः पराङ्मुख्या अपि हृदयतः प्रियाभिमुख्यास्तवोत्कण्ठां पृष्ठे रोमाञ्चः प्रथयतीति स्पष्टमलीकमिमं रोषं परित्यजेत्याशयः । अयत्नाऽपनेयमात्रा सेयमधीरा नायिकेति सरस्वतीकण्ठाभरणे भोजः ।
प्रणयकलहे प्रियतमं भृशं परिभवन्तीं मानिनीं शिक्षयितुं सखी मानिन्यन्तरस्तुतिप्रसङ्गेनाह
जाणइ जाणावेउं अणुणअविद्दविअमाणपरिसेसम् । अइरिकम्म वि विणआवलम्बणं सचिअ कुणन्ती ॥ ८८ ॥
[ जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम् । विजनेऽपि विनयावलम्बनं सैव कुर्वती ॥ ]
ज्ञापयितुं जानीतेऽनुनयगमिततिग्ममान परिशेषम् । विजनेऽपि कुर्वती किल सुदती विनयावलम्बनं सैव ॥ ८८ ॥
विजनेपि एकान्तेऽपि सुरतसमय इति यावत् । विनयावलम्बनं कुर्वती भुजप्रक्षेपसीत्काराद्यकरणात्सुरतसामयिकं धार्य्यं परिहरन्ती सैव सुदती, अनुनयेन गमितस्य विद्वावितस्य तिग्ममानस्य परिशेषं सूचयितुं जानीते, नान्या युवतीत्यर्थः । ' सुदती' इत्यनेन तत्समयोपस्थिते हास्यप्रसङ्गेऽपि केवलं दन्तमुकुलान्येव व्यञ्जयन्ती, न तु हृदयेन हसन्तीति सूचितम् । अयमाशयः - मानिनी सा प्रियतमेनाऽनुनये कृतेपि यदि तिग्मो मानो न परिशाम्यति तर्हि मौनाऽऽलम्बनादिना तं सूचयति, न तु त्वमिव दयितं परिभवति । अत एव भवत्यापि प्रियतमः सर्वदानुवर्तनीय एव न त्वधरीकरणीय इति । गूढमानर्द्धिः उदात्ता सेयं नायिकेति कण्ठाभरणे भोजः ।
बहुवल्लभत्वेपि एकस्यामेवानुरक्तं कश्चन रसिकमुद्दिश्य कृष्णव्याजेन काचिदाह
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org