________________
४२
काव्यमाला।
पन्नमिति सापत्न्यशङ्का न कार्या, यतः पत्युरनिष्टभयाज्जायापि स्वयमेव संगमोपयाचिकेति द्योत्यते । क्षीण इति भूतकालिकक्तप्रत्ययेन 'तस्य भूयान् गात्रापचयो जातः, इदानीमेवमकृत्रिमाऽनुरागं सरलहृदयं तं यदि नाऽभ्युपगच्छसि तर्हि पुरुषवधपातकं ते भविता' इति ध्वन्यते।
बहुवल्लभे नायके चिरादागते स्नेहोपालम्भसंभृतेन वाग्गुम्फेनात्मनोनुरागं प्रकाशयति काचन वचनविदग्धा
दक्खिण्णेण वि एन्तो सुहअ सुहावेसि अह्म हिअआई। णिकइअवेण जाणं गओसि का णिव्वुदी ताणम् ॥ ८५ ॥ [दाक्षिण्येनाप्यागच्छन्सुभग सुखयस्यस्माकं हृदयानि ।
निष्कैतवेन यासां गतोऽसि का निर्वृतिस्तासाम् ॥] दाक्षिण्येनागच्छन्नपि सुखयसि सुभग हृदयमस्माकम् । निकैतवेन यासां गतोसि का निवृतिस्तासाम् ॥ ८५ ॥ बहूनां वल्लभत्वात् हे सुभग ! दाक्षिण्यवशादप्यागच्छन् , न त्वनुरागादित्यर्थः । अस्माकं हृदयानि सुखयसि । अस्माकमिति बहुत्वेन 'दक्षिणतया याः किल त्वयाऽनुगम्यन्ते ता अपि न जाने कियत्यः' इति ध्वन्यते । यासां समीपे कैतवाभावेन गतोऽसि तासां सुखं तु किं वाच्यमिति भावः । तथा च 'चिरानुरागसंपन्ना अस्मद्विधा विहाय न जाने कियतीषु त्वं हृदयेनानुरज्यसि, इदानीं केवलं कैतवेनागच्छता त्वया वयं कियत्सुखिता इति त्वमेव जानीहि' इत्युपालम्भो व्यज्यते । 'कलहान्तरिता चिरागते कान्ते सस्नेहोपालम्भमाह' इति गङ्गाधरः।
ताडयन्त्यामपि मयि नोपचारान्परित्यजति दयित इति स्वसौभाग्य प्रकाशयन्ती खाधीनपतिका अन्यवनिताप्रसङ्गं निरस्यति
एकं पहरुविणं हत्थं मुहमारुएण वीअन्तो। सो वि हसन्तीऍ मए गहिओ बीएण कण्ठम्मि ॥ ८६ ॥ [एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन वीजयन् ।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे ॥] एकं प्रहारखिन्नं मुखमरुता वीजयन् हस्तम् ।
सोपि हसन्त्या कण्ठे मया गृहीतो द्वितीयेन ॥ ८६ ॥ प्रहारेण खिन्नमुद्विग्नम् एकं मम हस्तम् 'अहो कोमले ते हस्ते भवेत्पीडा' इति मुखमारुतेन वीजयन् स दयितो हसन्या मयापि द्वितीयेन हस्तेन कण्ठे गृहीतः । एवमनुकूले दयिते का कथाऽन्यवनिताप्रसङ्गस्येति सूच्यते । स्त्रीपुंसयोश्चाटुप्रसङ्गे उदाहृता सेयं गाथा भोजेन कण्ठाभरणे (५ परि.)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org