________________
१ शतकम् ] संस्कृतगाथासप्तशती।
अदर्शनेन स्त्रीणां प्रेम अपैति, तासां लघुहृदयत्वादिति भावः। नीचस्य तुच्छहृदयस्य सततदर्शनेनाऽपैति, प्रयोजनसाऽपेक्षत्वेन शीघ्रमेवोत्कण्ठानिवृत्तः । मूर्खस्य, न तु खयं विवेकशालिनः। खलस्य दुष्टस्य, एवमेवापि कारणं विनाऽपि । ततश्च 'उदारहृदयस्य त्वद्विधविवेकशालिनः प्रेम प्रत्यहमुपचीयेतैव, प्रवासादिनिरासेन मादृशचित्ताऽनुवृत्तेरिति' ध्वन्यते ॥
प्रसवानन्तरभाविस्तनपतनोत्तरमपि सेयं पूर्ववदनुवर्तनीयेति प्रथमगर्भायाः सुभगायाः सखी तत्कान्तं बोधयन्ती स्तनकालिमकथनव्याजेनाह
पोट्टपडिएहिँ दुःखं अच्छिजइ उण्णएहिँ होऊण । इअ चिन्तआण मण्णे थणाण कसणं मुहं जाअम् ॥ ८३॥ [उदरपतिताभ्यां दुःखं स्थीयत उन्नताभ्यां भूत्वा ।
इति चिन्तयतोर्मन्ये स्तनयोः कृष्णं मुखं जातम् ॥] उन्नतिभृद्भ्यां भूत्वोदरपतिताभ्यां बताऽऽस्यते दुःखम् ॥
इति चिन्तयतोर्मन्ये स्तनयोः कृष्णं मुखं जातम् ॥ ८३ ।। उन्नताभ्यां भूत्वा उदरपतिताभ्यां सद्भ्यां बत दुःखं आस्यते स्थीयते । लोकेऽपि यः पूर्व प्रणयबहुमानादिना उन्नतिशाली भूत्वा दुर्दैववशादुर्दशामापन्नः सनुदरभरणव्यग्रो भवति तस्याऽपि चिन्तया लज्जया च श्यामं मुखं भवतीत्यर्थान्तरं ध्वन्यते। तथा च भवद्विधदक्षिणनायकेन सेयं चिन्ता व्यपनेयेति नायकं प्रत्यभिव्यज्यते । केनचिचूना सह कांचन सुन्दरी संघटयितुकामा काचन दूती नायकानुरागमाह
सो तुज्झ कए सुन्दरि तह छीणो सुमहिलो हलिअउत्तो। जह से मच्छरिणीऍ वि दोचं जाआएँ पडिवण्णम् ॥ ८४॥ [स तव कृते सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः ।
यथा तस्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् ॥] सुन्दरि कृते तथा तव हालिकपुत्रः सुमहिलः क्षीणः ।
दौत्यं यथाऽस्य पत्या प्रतिपन्न मत्सरिण्यापि ॥ ८४॥ हे सुन्दरि! सुन्दरीत्यनेन 'तव सौन्दर्य तथा तस्य हृदये प्रतिफलितं यथा नान्या काचन हृदये प्रतिभाति' इति द्योत्यते । तव कृते सुमहिलः स हालिकपुत्रः तथा क्षीणः, यथा मत्सरिण्यापि अस्य जायया दौत्यं स्वीकृतम् । सुमहिल इत्यनेन 'तव सौन्दर्याने रूपवती भार्यामपि विहाय त्वय्यनुरक्तः' इति नायिकास्तुति+न्यते । हालिकपुत्र इत्यनेन 'तस्य सोयमनुरागोन कृत्रिमः। इत्यार्जवं सूच्यते। हालिकोस्य पिता वर्तमानस्तथा च नास्य कृषिकार्यादिव्यासङ्गेन त्वदनुरागभङ्गः, प्रभूतं च धनमिति व्यज्यते । जायया दौत्यं प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org