SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। [सानहरिद्राभृतान्तराणि जालानि जालवलयस्य । शोधयन्ती क्षुद्रकण्टकेन कं करिष्यसि कृतार्थम् ॥] स्नानहरिद्राभरितान्तराणि जालानि जालवलयस्य । कं किल कृतार्थयिष्यसि विशोधयन्ती नु वंशकण्टकतः॥८०॥ जालप्रधानस्य वलयस्य (करकङ्कणस्य) स्नानीय हरिद्रारुद्धावकाशानि जालानि क्षुद्रेण वंशकण्टकेन शोधयन्ती तल्लनमलमपनयन्ती त्वं कं जनं कृतार्थ करिष्यसि ।' अपवाहितदिनचतुष्टयतया गाढोत्कण्ठां कृतप्रसाधनां त्वामद्य यः किल रमयिष्यति तस्य जन्म कृतार्थमित्याशयः। 'किलिञ्चिशब्दो वंशवाची । यद्वा-हरिद्रादिनानीयद्रव्येण कृतस्नानां केशसंमार्जनोल्लग्नकरतया प्रकटितघनबाहुमूलां काञ्चन रमणीमुद्दिश्य नागरिकस्य कस्यचिदुक्तिरियम्। अस्मिन्पक्षे जालवलयस्य कङ्कतिकाया जालानि वंशकण्टकेन शोधयन्ती त्वं कं कृतार्थयिष्यसीति पूर्ववदर्थः । 'कं कृतार्थ करिष्यसि' इति साधारणशब्दप्रयोगात्तस्याः कुलटात्वं व्यज्यते। यद्वा-कमिति काका न कमपीति लभ्यते। कङ्कतिकासंस्कारेणैव कालातिपातादिति गङ्गाधरः। काचिद्विदग्धनायिका निजदयितस्य प्रवासम् , अतिपरिचयात्प्रणयन्यूनीकरणम् , पिशुनवचनविश्वासं च प्रतिषेधन्ती, आत्मनोऽनुरागं प्रकाशयति असणेण पेम्मं अवेइ अइदंसणेण वि अवेइ । पिसुणजणजम्पिएण वि अवेइ एमेअ वि अवेइ ॥ ८१ ॥ [अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति । पिशुनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति ॥] प्रेमाऽदर्शनतोऽपैत्यपैति नूनं च सततदर्शनतः। पिशुनजनजल्पितेनाप्यपैत्यथाऽपैति चैवमेवाऽपि ॥ ८१ ॥ प्रवासादिजातेन अदर्शनेन प्रेम अपैति । एवं चतुर्पु । अथ च एवमेवापि अपैतीति चतुर्थे पदयोजना। एतां गाथामेव स्फुटं बोधयितुमन्यामाह असणेण महिलाअणस्स अइदंसणेण णीअस्स । मुक्खस्स पिसुणअणजम्पिएण एमेअ वि खलस्स ॥ ८२ ॥ [अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य । । मूर्खस्य पिशुनजनजल्पितेनैवमेवापि खलस्य ॥] स्त्रीणामदर्शनेन हि नीचस्य च सततदर्शनेनेह । पिशुनजनजल्पितेनाशस्य खलस्यैवमेवाऽपि ॥ ८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy