________________
१ शतकम् ]
संस्कृतगाथासप्तशती।
भरिमो से गहिआहरधुअसीसपहोलिरालआउलिअम् । बअणं परिमलतरलिअभमरालिपइण्णकमलं व ॥ ७८॥ [स्मरामस्तस्या गृहीताधरधुतशीर्षप्रघूर्णनशीलालकाकुलितम् ।
वदनं परिमलतरलितभ्रमरालिप्रकीर्णकमलमिव ॥] आत्ताधरधुतशीर्षभ्रान्ताऽलकसंकुलं स्मरामोऽस्याः।
वदनं परिमलतरलितमधुकरपुञ्जप्रकीर्णकमलमिव ॥ ७८॥ रसाखादनाय गृहीते अधरे तन्निवारणविभ्रमेण धुते (कम्पिते) शीर्षे, भ्रान्तैः मौलि. कम्पनेन भ्रमणशीलैः अलकैराकुलम् , अत एव परिमलेन तरलितः इतस्ततो भ्राम्यन् यो मधुकरपुजः (भ्रमराऽऽलिः) तेन व्याप्तं कमलमिव स्थितम् , अस्या वदनं स्मरामः । यद्यस्मासु स्निह्यसि तर्हि त्वामपि तथैव लालयाम इति शृण्वन्तीं प्रति ध्वन्यते ।
प्रियतमसमादृतायाः प्रसाधनाऽभावेऽपि सौभाग्यं वर्धत एवेति काचिद्विदितरहस्यां वयस्यामाह
हल्लफलहाणपसाहिआण छणवासरे सवत्तीणम् । अजाएँ मजणाणाअरेण कहिअंव सोहग्गम् ॥ ७९ ॥ [उत्साहतरलत्वस्त्रानप्रसाधितानां क्षणवासरे सपत्नीनाम् ।
आर्यया मजनानादरेण कथितमिव सौभाग्यम् ॥] उत्साहरभसमजनविमण्डितानां क्षणे सपत्नीनाम् ।
कथितमिव मजनाऽनादरेण सौभाग्यमार्यया नूनम् ॥ ७९ ॥ हल्लफलमुत्साहतारल्यम् । 'मजनप्रसाधितानामस्माकं प्रियो वश्यः स्यात्' इत्युत्साहरभसेन यन्मजनं स्नानं तेन प्रसाधितानां सपत्नीनां मध्ये, क्षणे उत्सवदिवसे आर्यया गुणौदार्येण श्रेष्ठया सपत्न्या मज्जनानादरेण स्नानाऽवज्ञया सौभाग्यं कथितमिव । रूप-गुणवशीकृतः पूर्वत एव वचनाऽनुगतो दयित इति गर्वेणेति भावः । सोऽयं विव्वोकाख्यो भावः-'विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः' इति साहित्यदर्पणः । केचित्तु 'हल्लफल' शब्दं कदुष्णजलवाचिनं खीचक्रुः। तथा च किञ्चिदुष्णजलस्नानप्रसाधितानामित्यर्थः । 'सहचरप्रलोभनार्थं विटः कस्याश्चित्सौभाग्यगर्वसूचकं विव्वोकमाह' इति गङ्गाधराऽङ्गीकृतमवतरणम् । __ कृतहरिद्रोद्वर्तनतया जालवलयलममलमपनयन्ती कृतविशुद्धिस्नानां पुष्पवतीं प्रति साभिलाषः कश्चन विदग्ध आह
हाणहलिदाभरिअन्तराई जालाइँ जालवलअस्स । सोहन्ति किलिश्चिअकण्टएण के काहिसी कअत्थम् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org