________________
३८
काव्यमाला |
अन्यपुरुषाभिषङ्गं बुद्ध्वा भर्त्रा दुर्गमस्थाने निरुद्धा काचिज्जारप्रेषितां दूतीं दुर्दशापन्नस्य मनखिनो व्यपदेशेनैवमाह -
वि तह विएसवासो दोग्गच्चं मह जणेइ संतावम् । आसंसि अत्थविमणो जह पणइजणो णिअत्तन्तो ॥ ७६ ॥ [ नापि तथा विदेशवासो दौर्गत्यं मम जनयति संतापम् । आशंसितार्थ विमना यथा प्रणयिजनो निवर्तमानः ॥ ]
न तथा विदेशवासो जनयति दौर्गत्यमपि न मे तापम् । आशंसितार्थविमना निवर्तमानो यथा प्रणयी ॥ ७६ ॥ विरुद्धदेशे ( कुग्रामे ) वासः, दारिद्र्यं च मम तथा संतापं न जनयति यथा प्रत्याशंसिते अर्थे (धने ) विमना विषण्णमनाः सन् ( निराशम् ) निवर्तमानो यथा प्रणयिजनः, इति मनस्विपक्षे | कुलटापक्षे तु — बन्धनस्थाने वासः, दुर्गतता ( गतिनिरोधः ) च मम तथा दुःखं न जनयति यथा प्रत्याशंसिते अर्थे (प्रयोजने ' ( प्रिय संगमे ) ) विमुखः प्रणयी ( कान्तग्रहित दूतीजनः ) । नायमवसरोऽभिसारस्येति जारनिवर्तनाय कुलटोतिर्वा ।
रात्रिनिवासकामः पथिक इति सर्वान्प्रवच्य, अलिन्दे गोपायितस्य जारस्य सोयं रतिसमय इति सूचयन्ती दूती कामुकीमाह -
खन्धग्गणा वसुं तहिं गामम्मि रक्खिओ पहिओ । अरवसिओ डिजइ साणुसपण व सीएण ॥ ७७ ॥ [ स्कन्धाग्निना वनेषु तृणैर्ग्रामे रक्षितः पथिकः । नगरोषितः खेद्यते सानुशयेनेव शीतेन ॥ ]
स्कन्धाग्निना वनेषु ग्रामे च तृणैः सुरक्षितः पथिकः । शीतेन खेद्यतेऽसौ साऽनुशयेनेव संवसन्नगरे ॥ ७७ ॥
वनेषु स्कन्धाग्निना बृहत्काष्ठाग्निना, ग्रामे च तृणैः (तृणानां ज्वालनेन अवगुण्ठनेन वा ) सुष्ठु रक्षितः पथिकः नगरे संवसन् असौ ( पथिकः ) सानुशयेनेव स्मृतपूर्वामर्षेणेव शीतेन खेद्यते । तथा च शीतभयाद् गृहाभ्यन्तरनिलीनसकलजनायामस्यां शिशिर निशायां शीतव्याकुलमेनं पथिकं त्वमेव निरपायं गोपायेति सूच्यते । 'स्कन्धाग्निः स्थूलकाष्ठाभिः' इति हारावली । यद्वा-स्वयं दूतिकायाः पथिकं प्रति निजाऽभिलाषाविष्करणमेतत्—‘नगरे तृणकाष्ठादीनां दुर्लभत्वात्, नागरिकाणां च निर्दयत्वात्, दुःसहशीतभीषणायाभस्यां शिशिरनिशीथिन्यां यद्यात्मानं गोपायितुमिच्छसि तर्हि स्तनोष्मणि मच्छयनीये निलीयस्व' इति ।
कश्चिदात्मनो दृढस्नेहतां कामकलाकोविदतां च प्रकाशयन् शृण्वत्कामिनीजनमनोहरणायाऽऽह
C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org