________________
संस्कृतगाथासप्तशती ।
निर्ध्यायति किल यं यं सोऽनिमिषाक्षोऽङ्गकाऽवकाशं मे । प्रच्छादयामि तं तं वाञ्छामि च तेन दृश्यमानं च ॥ ७३
१ शतकम् ]
अभिलाषातिशयादनिमिषनयनः स यं यम् अङ्गकस्य तनोरङ्गस्यावकाशं निर्ध्यायति पश्यति, तं तं दयितस्य निरन्तरदर्शनाद्वीडोदयेन आच्छादयामि तेन दृश्यमानं वाञ्छामि च, अङ्गदर्शनेन प्रियमनोहरणाभिलाषादित्याशयः । ' कापि पत्यावन्ययोषाऽवकाश निरासार्थं स्वसौभाग्यमात्मनश्च पत्यावनुरागमाह' इति गङ्गाधरः । छायायां यद्यदित्यवकाशविशेषणं तु चिन्त्यमेव ।
कलहान्तरितायाः सखी अनुनयार्थं तत्कान्तं प्रोत्साहयितुमाह
दिढमण्णुदूणिआएँ वि गहिओ दइअम्मि पेच्छह इमाए । ओसरह बालुआमुट्ठि उव माणो सुरसुरन्तो ॥ ७४ ॥
३७
[ दृढमन्युडूनयापि गृहीतो दयिते पश्यतानया । अपसरति बालुकामुष्टिरिव मानः सुरसुरायमाणः ॥ ] दृढमन्युदुनयापि च पश्यत दयितेऽनया गृहीतोपि । सुरसुरिति हन्त मानो निरयत इव बालुकामुष्टिः ॥ ७४ ॥
दृढमन्युदुनयाऽप्यनया दयितया, दयिते दयितं प्रति गृहीतोऽपि दृढं स्वीकृतोपि मानः बालकामुष्टिरिव हन्त सुरसुर् इति निरयते अपगच्छति । सुरसुरिति मुष्टितो बालुकानिःसरणस्वभावोक्त्या 'तवानुरागवशादिदानीं स्वत एव मानः शिथिलीभवन्नपसरति, ततश्चावसरोऽधुनाऽनुनयस्य' इति दयितं प्रति द्योत्यते ।
उद्याने विहरन्कश्चन कान्तामनसि मनसिजोद्दीपनाय समीपगतां तामेवमाह - उअ पोम्मराअमरगअसंवलिआ णहअलाओं ओअरइ । हसिरिकण्ठब्भट्ठ व कण्ठिआ कीररिञ्छोली ॥ ७५ ॥ [ पश्य पद्मरागमरकत संवलिता नभस्तलादवतरति । नभः श्रीकण्ठभ्रष्टेव कण्ठिका कीरपङ्किः ॥ ]
अवतरति पश्य नभसो मरकतमणिपद्मरागसंवलिता । गगन श्रीगलमध्याद् गलिता किल कण्ठिकेव शुकपङ्किः ॥ ७५ ॥ नभः श्रीकण्ठमध्याद् भ्रष्टा, मरकतमणिभिः पद्मरागैर्माणिक्यैश्च संवलिता संघटिता कण्ठिका इव 'कण्ठी' इति ख्यातं कण्ठाभरणमिव शुकपतिर्नभसोवतरतीति त्वं पश्य । शुकानां हरितवर्णत्वान्मरकतमणिसादृश्यम्, तच्चञ्चूनां च लोहितवर्णत्वात्पद्मरागसाम्यमिति सेयमुत्प्रेक्षा । तथा च मनसिजरसमयोयं समय इति कान्तां प्रति सूच्यते । 'सुरतासक्ता काचिच्चिररमणार्थं कान्तमन्यमनस्कं कर्तुमाह' इति गङ्गाधरः ।
सं. गा. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org