________________
६
... काव्यमाला।
.. [यावन्मानं शक्यते निर्वोढुं देहि तावन्तं प्रणयम् ।
न जनो विनिवृत्तप्रसाददुःखसहनक्षमः सर्वः ॥] शक्यो वोढुं यावांस्तावन्तं देहि मे प्रणयम् ।
सर्वो जनो निवृत्तप्रसादपीडासहो नाऽयम् ॥ ७१ ॥ यावान् प्रणयः सर्वदापि निर्वोढुं शक्यते तावन्तं मे देहि । अयं सर्वोपि जनः, निवृत्तो यः प्रसादः प्रणयस्तस्य या पीडा दुःखं तत्सहः सहनक्षमो नास्ति । तथा च बहुवल्लमेन भवता पूर्व बयोपि प्रणयभङ्गं कृत्वा परित्यक्ताः, न तद्वदहमपि बोधनीया। अननुभूतप्रणयखण्डना त्वदनुरक्ताऽहं तु त्वया प्रणयखण्डने कृते न जीवामीति ध्वन्यते ।
प्रियतमप्रणयभङ्गतः परिगृहीतमाना, प्रियेण च 'किमेवं मय्यद्यापि प्रणयविमुखासि' इत्याद्यनुनीयमाना काचिन्मानिनी तत्प्रणयस्याऽस्थिरतामात्मनश्चानुरागातिशयमाविष्कतुमेवमाह
बहुवल्लहस्स जा होइ वल्लहा कह वि पञ्च दिअहाई । सा किं छठें मग्गइ कत्तो मिदं व बहुअं अ॥ ७२ ॥ [बहुवल्लभस्य या भवति वल्लभा कथमपि पञ्च दिवसानि ।
सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च ॥] बहुवल्लभस्य दिवसान् पञ्च कथञ्चित्तु वल्लभा या स्यात् ।
सा षष्ठं नु मृगयते ? कुतो हि मृष्टं च बहुकं च ॥ ७२ ॥ बढ्यो वल्लभा यस्य स बहुवल्लभः तस्य या वल्लभा भवति सा कथंचित् पञ्च दिवसांस्तु पश्यति । अनन्तरमन्यत्रासक्तस्य कान्तस्याभिप्रायमवगत्य सा नु (किम् ) षष्ठं दिवसं मृगयते पश्यति, नैव पश्यतीत्यर्थः । यतो हि मृष्टं च बहुकं च कुतः । यद्ध्यनुकूलं परिमाणतोऽधिकं च तत्सुकृतपरिपाकलभ्यमित्यर्थः । “मिष्टं च" इत्यपि संभवति । तथा च या बहुकालं तवाऽनुरागमुपलब्धवती स्यादवश्यं सा धन्या, मम मन्दभाग्यायास्तु कुत एतदिति कान्तं प्रत्यभिव्यज्यते । यद्वा, अभिमतप्रियस्य सार्वदिकसंभोगाऽलाभात्खिद्यमानां नायिका बोधयन्त्याः सख्या इयमुक्तिः। अपैति च शोभते च तादृशोयं कुसुम्भराग इति स. कण्ठाभरणे भोजः (परि. ५)। __ सततमनुगतस्य दयितस्यानुरागमात्मनोऽपि च तं प्रत्यभिलाषातिशयं प्रकाशयितुं नायिका सखीमाह
जं जं सो णिज्झाअइ अङ्गोआसं महं अणिमिसच्छो। ... पच्छाएमि अ तं तं इच्छामि अ तेण दीसन्तम् ॥ ७३ ॥
[यद्यत्स निायत्यगावकाशं ममानिमिषाक्षः । .... प्रच्छादयामि च तं तमिच्छामि च तेन दृश्यमानम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org