________________
१ शतकम् ] संस्कृतगाथासप्तशती।
स्वाधीनभर्तृकां काञ्चन नवीनां कामयमानं प्रति तत्प्राप्तेराशां निरस्यन्ती दूती अन्यापदेशेनाह
पाणिग्गहणे विअ पबईऍ णाअं सहीहिँ सोहग्गम् । पसुवइणा वासुइकङ्कणम्मि ओसारिए दूरम् ॥ ६९ ।। [पाणिग्रहण एव पार्वत्या ज्ञातं सखीभिः सौभाग्यम् ।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम् ॥] पार्वत्याः सौभाग्यं करग्रहण एव विदितमालीभिः।
व्यपनीते पशुपतिना निजवासुकिकङ्कणे दूरम् ॥ ६९ ॥ पार्वत्या भयनिवृत्त्यर्थम् , अमिरुचितेऽपि स्वीये वासुकिरूपे कङ्कणे पशुपतिना दूरमपसारिते सति पाणिग्रहण एव प्रियानुरागरूपं पार्वत्याः सौभाग्यं सखीभिख़तम् । इदानीमेव एवंविधमनुगतत्वं तर्हि अग्रे का कथेति भावः । तथा च नित्यमनुकूलमाचरतः प्रियस्य सेयं प्रथमत एव तथा वल्लभा यथा नेयमन्यं कामयितुमर्हतीति कामुकं प्रत्यभिव्यज्यते। 'विज्ञा उपक्रम एव भद्रं विरुद्धं च जानन्तीति दर्शयन् कश्चिदाह' इति गङ्गाधरः। शिवनिष्ठः प्रथमानुरागानन्तरः सोयं संभोगशृङ्गार इति स. कण्ठाभरणे भोजः (५ परि.)। ___ कस्याश्चन प्रोषितपतिकाया ग्रीष्मान्तः प्रियप्रत्यागमावधिरासीत् । नवमेघोदयशङ्कयाऽवधिलङ्घनं मत्वा प्रियतमस्याऽन्यासक्तिं संभाव्य व्याकुलायास्तस्याः समाश्वासनार्थ सखी आह
गिटे दवग्गिमसिमइलिआइँ दीसन्ति विज्झसिहराई । आससु पउत्थवइए ण होन्ति णवपाउसम्भाई ॥ ७० ॥ [ग्रीष्मे दवाग्निमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि ।
आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥] ग्रीष्मे भान्ति दवानलमसीमलिनितानि विन्ध्यशिखराणि ।
न नवप्रावृड्जलदाः प्रोषितपतिके समाश्वसिहि ॥ ७० ॥ विन्ध्यशिखराणि ग्रीष्मे दावानलमसीसम्पर्केण मलिनानीवाऽऽचरितानि, न तु वास्तवं मलिनानि भान्ति प्रतीयन्ते, दृश्यन्त इति यावत् । औपम्यवत्यपह्नुतिरलङ्कार इति सकण्ठाभरणे भोजः (४ परि.)।
प्रथमसङ्गमेऽनुरागाऽतिशयं प्रकाशयन्तं बहुवल्लभं कान्तं सर्वदा एकरसप्रणयानुत्यर्थ काचिदाह
जेत्तिअमेत्तं तीरइ णिबोद्धं देसु तेत्तिसं पणअम् । ण अणो विणिअत्तपसाअदुक्खसहणक्खमो सबो ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org