________________
काव्यमाला।
पङ्कभयोत्प्लुतपदमिदमलसितया तव पदे प्रदत्तं चेत् ।
पुलकितमङ्गमिदानीं किमिति सुभग तत्स्फुटं वहसि? ॥ ६७ ॥ __अलसायमानया न तु वास्तवमलसया। तथा च तस्या मन्दगमनमपि अनुरागमूलकमेवेति भावः । पङ्कभयेनोत्तमिदं पदं तव पदे चेत्प्रदत्तं तर्हि स्पष्टं कण्ट कितमङ्गमिदानी किमिति वहसि । मार्गे गच्छन्त्योपि त्वय्यनुरज्यन्तीत्याकूतेन सुभगेत्यामन्त्रणम् । यदीयं त्वयि नाऽनुरक्ता, तर्हि तव पदस्थानेऽनया पदे दत्ते कथं ते रोमाञ्चो जात इत्याशयः।
अनुरागातिशयं प्रकाशयतोपि दानशून्यस्य भुजङ्गस्य हेपणार्थ दुहितुश्च शिक्षार्थ वेश्याधात्री आह
पत्तो छणो ण सोहइ अइप्पहाअ व पुण्णिमाअन्दो। अन्तविरसो व कामो असंपआणो अ परिओसो ॥ ६८ ॥ [प्राप्तः क्षणो न शोभते अतिप्रभात इव पूर्णिमाचन्द्रः।
अन्तविरस इव कामो असंप्रदानश्च परितोषः ॥] प्राप्तः क्षणो न राजत्यतिकल्ये पूर्णिमेन्दुरिव ।
अन्तविरस इव कामो ह्यसंप्रदानश्च परितोषः॥६८॥ प्राप्तः अतिक्रान्तः क्षणः उत्सवो न शोभते, यथा अतिप्रभाते पूर्णिमाचन्द्रः, तत्प्रकाशस्थातिक्रान्तत्वात् । सम्यक्प्रदानशून्यः परितोषश्च न शोभते, यथा अन्तविरसः कामः। यस्याः कामनाया अन्ते वैरस्यमुत्पद्यते न सा लोकानां प्रिया। तथैव परितोषप्रकाशनान्ते समुचितवितरणाभावे रसक्षतिरिति यदि त्वमिमामनुरक्तां कामयसे तर्हि सम्यग्वितरणीयमिति कामुकं प्रत्यभिव्यज्यते ।
पूर्वोक्तं सर्वमिदं 'अइप्पहाअव्व पुण्णिमाअन्दो। अन्तविरसो व्व कामो' इति पाठं निर्मितवतो गङ्गाधरस्यानुरोधेन । वस्तुतस्तु
पत्तो छणो ण सोहइ अइप्पहाअम्मि पुण्णिमाअन्दो। अन्तविरसो अ कामो असंपआणो अपरिओसो ॥ प्राप्तः क्षणो न राजत्यतिकल्ये पूर्णिमाचन्द्रः ।
अन्तविरसश्च कामो ह्यसंप्रदानश्च परितोषः ॥ प्राप्तेराशायामेव आनन्दाधिक्यात्प्राप्त उपस्थितः क्षण उत्सवो न शोभते, प्राप्तत्वेन उत्कण्ठानिवृत्तेः। तथा अतिप्रभाते पूर्णिमाचन्द्रो न शोभते। सायं क्रमेणोदेष्यतस्तस्य दर्शने यथोत्कण्ठा न तथाऽस्तं जिगमिषोस्तस्य दर्शन इति भावः। परिणामविरसा कामना च न शोभते, एवं सम्यकप्रदानशून्यः परितोषश्च न शोभते । एते चत्वारो न शोभन्ते इति दीपकः । अग्रेपि सैषा शैली प्रदर्शिता गाथाकोषकारेण यथा-'छज्जइ पहुस्स ललिअम्' [ २ शतके ४३] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org