________________
१ शतकम् ] संस्कृतगाथासप्तशती।
त्वं यदि तस्य प्रिया न भवसि, तर्हि अनुदिवसं सुरतपरिश्रमपरिम्लानतया निःसहैरङ्गेरुपलक्षिता सती, पीयूषेण अभिनवदुग्धेन मत्ता निद्रावशीकृता नवशिशुः नवजाता महिषीवत्सेव किं स्वपिषि? 'पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते।' इति मेदिनी। 'पीयूषममृते नव्यसूतधेनोः पयस्यपि ।' हैमोपि । प्रसवोत्तरसप्तदिवसाभ्यन्तरीणदुग्धपानेन पशुवत्सो निद्रातीति लोकप्रसिद्धम् । सुरतपरिश्रमजातो जागर एव ते तदनुराग प्रकाशयतीति भावः । अत्र 'पाडी' इवेति महिषीवत्सोपमा अनर्हतां सूचयन्ती सपत्नीगतामीर्ष्या व्यनक्ति । गङ्गाधरस्तु-"निजभर्तुरेवाऽप्रियास्मि, तत्किं मया दुर्भगया' इति निरस्यन्ती नायिकां प्रति साभिलाषस्य कस्यचिदुक्तिरियम्' इत्याह । तत्र नायिकायां 'पाडी' इत्युपमा विचारणीयैव । 'प्रियतमस्य त्वं प्रियासि' इति समर्थनमपि जारविषयेऽनुपपन्नम् । स हि प्रियस्य वैगुण्यं संसूच्य नायिका साधयतीति दृष्टम् । सख्यादिभिरवगतः प्रकाशोयं प्रेमा इति स. कण्ठाभरणे भोजः। विदेशगतपतिकां काञ्चिदन्याऽऽसक्तां लोकापवादभीता काचिद्वन्धुवधूराह
हेमन्तिआसु अइदीहरासु राईसु तं सि अविणिद्दा । चिरअरपउत्थवइए ण सुन्दरं जं दिआ सुवसि ॥ ६६ ॥ ___ [हैमन्तिकास्वतिदीर्घासु रात्रिषु त्वमस्यविनिद्रा।
चिरतरप्रोषितपतिके न सुन्दरं यद्दिवा स्वपिषि ॥] अतिदीर्घाख विनिद्रा त्वमसि भृशं हैमनीषु रजनीषु।
सुचिरप्रोषितपतिके न सुन्दरं यदिवा खपिषि ॥६६॥ इयद्दीर्घासु रात्रिषु अविगतनिद्रा (अपूरितनिद्रा) त्वं यद्दिने स्वपिषि तन्न सुन्दरम् , लोकानामसतीत्वशङ्काकारणत्वादयुक्तमित्यर्थः । प्रोषितपतिकात्वेन प्रियसंभोगादिकं रात्रिजागरणकारणं तु निवारितमेव । ननु तत्कालमेव प्रियप्रवासे तच्चिन्तयापि रात्रिजागरणं संभवति, प्रियसत्त्वे प्रतिदिनाभ्यासाद्वा । तच्छङ्कानिरासार्थ संबोधनम्-'सुचिरप्रोषितपतिके !' इति । तथा च बहोः कालात्प्रियविप्रयोगसहत्वान्न प्रियचिन्तया विनिद्रत्वमपि संभवतीत्याशयः ।
'पङ्किले पथि, कर्दमभयादुप्लुत्य तया मम पदस्थाने पदं निक्षिप्तं न पुनरनुरागात्' इति प्रियाप्रणयं गोपयन्तं कान्तं काचिदाह
जइ चिक्खल्लभउप्पअपअमिणमलसाइ तुह पए दिण्णम् । ता सुहअ कण्टइजन्तमङ्गमेहिं किणो वहसि ॥ ६७ ॥ [यदि कर्दमभयोरप्लुतपदमिदमलसया तव पदे दत्तम् । तत्सुभग कण्टकितमङ्गमिदानी किमिति वहसि ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org