________________
३२
काव्यमाला।
पश्यत पटलविलम्बितनिजतन्तुतलोवंपादपरिलग्नम् ।
दुर्लक्ष्यसूत्रसंगतबकुलकुसुममेकमिव हि मर्कटकम् ।। ६३॥ पटलविलम्बितः छदिषोऽन्तरादवतीर्णो यो निजतन्तुः तस्य तले ऊर्द्धपादैः परिलग्नम् । अत एव दुर्लक्ष्यसूत्रग्रथितमेकं बकुलकुसुममिव स्थितं मर्कटकं लूतां पश्यत। 'अथ मर्कटकः सस्यभेदे वानरलूतयोः।' इति मेदिनी। अनया मर्कटकस्वभाववर्णनरूपया खभावोक्तया 'इदं स्थानं जनयातायातशून्यमत एव सुचिरं रतोत्सवोऽनुभूयताम्' इत्यर्थो ध्वन्यते।
पुराणदेवकुलस्य जनसंचारशून्यतां प्रदर्य सुखसंगमार्थमुत्तेजयन्ती काचित्कामुकी जारमाह
उअरि दरदिवथण्णुअणिलुक्कपारावआण विरुएहिं । णित्थणइ जाअवेअण मूलाहिणं व देअउलम् ॥ ६४ ॥ [उपरीषदृष्टशङ्कुनिलीनपारावतानां विरुतैः।
निस्तनति जातवेदनं शूलाभिन्नमिव देवकुलम् ॥] उपरि दरदृष्टशङ्कुकनिलीनपारावतोच्चरुतैः।
निस्तनति जातपीड शूलाभिन्नं व देवकुलम् ॥ ६४॥ उपरि उपरिभागे, चूडाकलशस्य भग्नतया दरदृष्टो यः शङ्कुकः, ईषदवशिष्टतया किञ्चि. दृश्यमानो यः कीलकः, तत्र निलीनानां निर्जनतया संकोचितचरणं कुब्जीभूय स्थितानां पारावतानामुचैः रुतैः शूलाभिन्नं व शूलाप्रोतमिव जातवेदनं देवकुलं (देवमन्दिरम् ) निस्तनति करुणं रौतीत्यर्थः । इवार्थको वशब्दः । तथा च रतिसमये पारावतरुतानुकारि यन्मणितादि जायते तदपि नात्र संलक्ष्येतेति गूढं सूचितम् । शूलाभिन्नमिव जातपीड. मित्युत्प्रेक्षया वसतिबाह्यतां प्रदर्य स्थानस्य निर्जनता द्योत्यते । एवं चानुपलक्ष्यरतिकूजितं निःशङ्कमत्र सुरतमनुभवेति वक्तृवैशिष्टयेन ध्वन्यते । नायकस्य दीर्घरमणार्थ चमत्कारमुत्पादयितुं शूलाभिन्नमिवेत्युत्प्रेक्षणम् । तथा च कामशास्त्रम्-'कल्लोलिनीकाननकन्दरादौ दुःखाश्रये चार्पितचित्तवृत्तिः । मृदुद्रुतारम्भमभिन्नधैर्यः श्लथोपि दीर्घ रमते रतेषु ॥' इति गङ्गाधरः।
परवनितालोलुपस्य निजदयितस्यानुरागमाकृष्टवतीं पुनः 'नासौ मध्यनुरक्तः, न चाह तस्य प्रिया' इत्यादिना प्रेमाणमनभ्युपगच्छन्ती परकीयां काञ्चन सपत्नी काचिदाह
जइ होसि ण तस्स पिआ अणुदिअहं णीसहेहिँ अङ्गेहिं । णवसूअपीअपेऊसमत्तपाडि व किं सुवसि ॥६५॥
[यदि भवसि न तस्य प्रियानुदिवसं निःसहैरङ्गैः । ___ नवसूतपीतपीयूषमत्तमहिषीवत्सेव किं स्वपिषि ॥] यदि तस्य न प्रियासि प्रतिदिवसं निःसहैरङ्गैः। पीयूषमत्तनवशिशुमहिषीवत्सेव किं स्वपिषि ॥ ६५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org