________________
१ शतकम् ]
संस्कृतगाथासप्तशती ।
बन्द्यां कस्यांचन जाताभिलाषश्चोरयुवा भर्तृशौर्याभिमानेन निजकारामुक्तिं विश्वसन्त्यास्तस्या उत्साहभङ्गार्थमाह
करिमरि अआलगजिरजलआसणिपडनपडिवो एसो । पणो धणुरवकरि रोमचं किं मुहा वहसि ॥ ५७ ॥ [ बन्दि अकालगर्जनशीलजलदाशनिपतनप्रतिरव एषः । पत्युर्धनूरवाकाङ्क्षणशीले रोमाञ्चं किं मुधा बहसि ॥ ] बन्दि ! अनवसर गर्जनशीलजलदवज्रपतनरव एषः । पतिचापरवाकाङ्क्षिणि रोमाञ्चं किं मुधा वहसि ॥ ५७ ॥
अकाले गर्जनशीलस्य जलदस्य वज्रपतनस्यैष शब्दः । पतिधनुष्टङ्कारश्रवणलालसे ! पत्युः स्मरणेन मुधा रोमाञ्चं किं वहसि । नायं धनुष्टङ्कारस्ततः कथंकारं मदनुकम्पां विना मुक्तिं वाञ्छसीति तां प्रति सूच्यते । अत्र रोमाञ्चरूपेण रसस्य जन्मेति स. कण्ठाभरणे भोजः (५ परि. ) ।
बहुवल्लभस्य साध्वी काचिन्नायिका भर्तुः शौर्यप्रकाशनेन सह असतीनां निजसपत्नीनामभिसारसज्जतां सूचयितुं श्वश्रूं प्रत्याह
-
अज वेr पत्थो उज्जाअरओ जणस्स अजे अ । अजे अ हलिद्दापिञ्जराइँ गोलाणइतडाई ॥ ५८ ॥
[ अद्यैव प्रोषित उजागरको जनस्याद्यैव 1
अद्यैव हरिद्रापिञ्जराणि गोदानदीतटानि ॥ ] प्रोषित एषोद्यैव प्रोजागरको जनस्य चाद्यैव । गोदानदीतटान्यपि हन्त हरिद्राविपिञ्जराण्यद्य ॥ ५८ ॥
२९
संग्रामप्रसङ्गेन भवत्पुत्र एषोऽद्यैव प्रवासं गतः । अद्यैव च चौराद्याक्रमण भयाद् ग्राम * वासिनो जनस्य प्रकर्षेण उज्जागरकः ( जागरणम् ), अस्तीति शेषः । जनस्य सपत्नीजनस्याद्यैव अभिसरणाभियोगाज्जागरणमस्तीत्यपि ध्वन्यते । गोदावरीतीराण्यपि अद्यैव हरि - द्रावि पिञ्जराणि सन्ति हरिद्रोद्वर्तिताङ्गप्रक्षालनेन असतीनामङ्गरागसंक्रमणादित्यर्थः पूर्वं ग्रामप्रधानस्य भवत्पुत्रस्य सत्तायामसतीनां न तावदन्याभिसरण साहसमभूदिति भावः । एतेन यथासौ मत्पतिश्चौराद्याक्रमणरोधकत्वेन शूरस्तथैव बहुनायिकारणत्वेन वनितोपभोगकुशलोपीति ध्वन्यते ।
Jain Education International
कुलवधूशिक्षार्थं प्रौढा काचित्पारिवारिकपुरन्ध्री सतीवृत्तमाहअसरिसचित्ते दिअरे सुद्धमणा पिअअमे विसमसीले । ण कहर कुडुम्बविहडणभएण तणुआअए सोह्रा ॥ ५९ ॥
For Private & Personal Use Only
www.jainelibrary.org