SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २८ काव्यमाला । ' शृण्वन्तं कञ्चन भुजङ्गं मोहयितुं वेश्याधात्री खदुहितुः सुरतचातुर्येपि सौकुमार्यातिशयं प्रकटयितुं भुजङ्गान्तरनिन्दाव्याजेनाह सहइ सहइ त्ति तह तेण रामिआ सुरअदुविअद्धेण । पम्माअसिरीसाइँ व जह से जाआई अङ्गाई ॥ ५५॥ ... [ सहते सहत इति तथा तेन रमिता सुरतदुर्विदग्धेन । अम्लानशिरीषाणीव यथास्या जातान्यङ्गानि ॥] सहते सहत इतीयं रमितैवं सुरतदुर्विदग्धेन । म्लानशिरीषाणीव हि जातान्यस्या यथाऽङ्गानि ॥ ५५ ॥ इमं प्रकारमपि सहते इमं प्रकारमपि सहते इति मुहुः प्रकारान्परिवर्त्य इयं कोमलाङ्गी मद्दुहिता सुरतदुर्विदग्धेन सुरताऽऽयासादिपरिचयाऽचतुरेण एवं रमिता अर्थात्तथा उपभुक्ता। एवमत्र तथाऽर्थे । यथास्या अङ्गानि म्लानशिरीषाणीव निःसहानि जातानि । सहते सहते इति वीप्सा बहून् सुरतप्रकारानाख्याति । तथा च सेयं बहुषु सुरतप्रकारेषु विदग्धेति कामुकं प्रति व्यज्यते। सुरतायासादेव सेयं निःसहाङ्गी न पुना रोगादिनेत्यपि सूचितं भवति । एवं च त्वमपि तथैवैनामुपभोक्ष्यसे यथेयमतिसुकुमाराङ्गी नाधिकमाकुला स्यादिति दुहितुः परिश्रमस्य समयस्य च संक्षेपं सूचयति । .. अन्यवनितासङ्गेनोपेक्षमाणं नायकं प्रति कस्याश्चनानुरागातिशयं प्रकाशयितुं दूती आह अगणिअसेसजुआणा बालअ वोलीणलोअमजाआ। अह सा भमइ दिसामुहपसारिअच्छी तुह कएण ॥ ५६॥ [अगणिताशेषयुवा बालक व्यतिक्रान्तलोकमर्यादा । अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृतेन ॥] अगणितसमस्तयुवका बाल व्युत्क्रान्तलोकमर्यादा । अथ सा भ्रमति दिशामुखविकासिताक्षी तव कृतेन ॥ ५६ ॥ हे बालक तादृशस्त्रीरत्नोपेक्षणात्, रमणीवधाऽपराधाऽचिन्तनाच्च निजहिताहितज्ञानशून्य । न गणिता न बहुमतास्त्वदन्ये अशेषा युवानो यया सा। एतेन नेदं मनस्यभिमन्येथा यदहमेव युवक इति, किं त्वनयैव त्वदनुरागादन्ये न वीक्षिता इति साकूर्त ध्यन्यते। गुरुजनशिक्षाऽवधीरणात् लज्जात्यागाच उल्लवितलोकमर्यादा, सा पूर्वोक्त-सौन्द. र्यानुरागाद्यनेकगुणा, तव कृतेन त्वद्दर्शनाभिलाषेण दिङ्मुखप्रसारिताक्षी सती भ्रमति । तव नैकत्राऽऽसक्तिरिति चतुर्दिक तवान्वेषणे यतत इति सूच्यते। ततश्च यावनेयं शोचनीयामवस्थामश्नुते तावदेनां त्वरितमनुगृहाणेति नायकं प्रति ध्वन्यते । प्रेमपुष्टिषु लज्जा. विसर्जनमेतदिति स. कण्ठाभरणे भोजः (५ परि.)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy