________________
१ शतकम् ] संस्कृतगाथासप्तशती। २७ मूलमनुरुन्धानो 'ईषत्पुरुषायिते-विश्रामशीले' इति व्यस्तं व्याचख्यौ । विश्राम इत्यपि पाणिनीयानामरुन्तुदम् ।
निःशेषितवैभवतया पूर्व निष्कासितस्य, इदानीमुपार्जितप्रभूतधनसमृद्धेः कस्यचिद्भुजङ्गस्य पुनर्वशीकरणाय प्रेषयन्तीं मातरं प्रति वेश्या आह
पेम्मस्स विरोहिअसंधिअस्स पचक्खदिढविलिअस्स । उअअस्स व ताविअसीअलस्स विरसो रसो होइ ॥५३॥ [प्रेम्णो विरोधितसंधितस्य प्रत्यक्षदृष्टव्यलीकस्य ।
उदकस्येव तापितशीतलस्य विरसो रसो भवति ॥1 विच्छिन्नसंहितस्य प्रेम्णः प्रत्यक्षितव्यलीकस्य ।
विरसो रसो भवति यत तापितशीतस्य पयस इव ॥ ५३॥ पूर्व विच्छिन्नस्य ततः पुनः संहितस्य योजितस्य प्रत्यक्षीकृतव्यलीकस्य प्रत्यक्षदृष्टापराधस्य प्रेम्णः। पूर्व तापितस्य ततः शीतलीकृतस्य उदकस्येव रसो विरसो भवति । अयं भावः-पूर्व तु विच्छिन्नस्य प्रेम्णः सन्धानमेव दुःसम्भवम् । तत्रापि प्रत्यक्षमवलोकितोऽन्यविटसंभोगाद्यपराधः कथमिव समाधेयः। श्रुतेऽनुमिते वा विप्रिये भवेत्कदाचित्प्रतीकारः, प्रत्यक्षीकृते तु का नाम समाहितिः? अत एव सुभृशं पर्युपास्यमानोऽपि नासौ तथानुरज्येत । किमिति मुधाऽवधीरणाऽवमानमनुभावयसीति ध्वन्यते । ' कस्यचिदुदात्तपुरुषस्य समुचितवैभवप्राप्तौ पूर्वावस्थासहचराणामप्यसौ दुःखनिरासाय यतते इति निदर्शयितुं बन्दीकृतायाः कस्याश्चन योषितः पतिपराक्रमवृत्तं कश्चिदभिधत्ते
वजपडणाइरिकं पइणो सोऊण सिञ्जिणीघोसम् । पुसिआई करिमरिऍ सरिसबन्दीणं पि णअणाई ॥ ५४॥ [ वज्रपतनातिरिक्तं पत्युः श्रुत्वा शिञ्जिनीघोषम् ।
प्रोग्छितानि बन्द्या सदृशबन्दीनामपि नयनानि ॥] वज्रपतनातिरिक्तं पत्युः श्रुत्वा तु शिञ्जिनीघोषम् ।
स्वसदृशबन्दीनामपि बन्द्या द्राक् प्रोञ्छिते नयने ॥ ५४॥ करिमरी बन्दी। दिग्बधिरीकरणातिशयात् वज्रपतनशब्दतोऽप्यधिकं पत्युः प्रत्यञ्चारवमाकर्ण्य, तेनाऽतिशयेन भर्तुरेवेति परिचीय । बन्दीकृतया शूरनार्या, खयमिव बन्दीकरणदुःखमनुभवन्तीनामन्यासामपि बन्दीनाम् 'अतिशयितधनुर्धरः सोयमुपस्थितो. मे. खामी, मामिव भवतीरपि मोचयिष्यति, तत्किमधुनाऽश्रुविमोचनेन' इति बाष्पकलुषिते नयने मार्जिते इत्यर्थः । ततश्च मनस्वी धनसमृद्धिमुपलभ्य दारिद्यदुःखानुभवशालितया दयालुतो दीनानामन्येषामपि दुःखमपाकुरुते इत्यनेन निदर्यते। 'बहुशोऽनुभूतेर्थे भविष्यत्यपि भूतवत्प्रत्ययो भवतीति निदर्शयन् बन्धाः पतिशौर्यबहुमानमाह कश्चिदिति' गङ्गाधरावतरणिका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org