________________
२६
काव्यमाला।
मम मरणमेव साम्प्रतं वरमित्युपालम्भोभिव्यज्यते । कामबाधया प्रत्येतव्या सेयमप्रस्तुतप्रशंसेति भोजः । यतः अप्रस्तुतस्य ज्वरस्य स्तुत्या प्रियस्य प्रतीतिर्भवतीति ॥ खण्डिता सुखप्रश्नार्थमागतं कान्तं प्रति सेय॑माह--
आमजरो मे मन्दो अहव ण मन्दो जणस्स का तन्ती। सुहउच्छअ सुहअ सुअन्धअन्ध मा अन्धिअंछिवसु ॥५१॥ [आमज्वरो मे मन्दोऽथवा न मन्दो जनस्य का चिन्ता ।
सुखपृच्छक सुभग सुगन्धगन्ध मा गन्धितां स्पृश ॥] आमज्वरोस्तु मन्दोऽथ मे न मन्दो जनस्य का चिन्ता ।
सुखपृच्छक शुभगन्ध स्पृश मा मां गन्धितां सुभग ॥५१॥ त्वद्गतक्रोधेन रात्री जागरणाद् उत्पन्नो मे आमज्बरः-अजीर्णोत्पन्नो ज्वरः । मन्दोस्तु अथवा न मन्दोस्तु, जनस्य मद्दुःखाद्यजानत उदासीनस्य का चिन्ता ? जनस्येत्यनेन साधारणमनुष्यवत् त्वं तटस्थोऽसि, अतएव मद्दुःखाददुःखितस्य भवतः किमनेन मन्दाs. मन्दप्रश्नेनेत्युपालम्भो ध्वन्यते । सुखपृच्छक ! लोकव्यवहारानुरोधादवास्थ्यवार्ताकारक ! एतेन 'प्रातरपि केवलं लोकानुरोधादेव समागतो न पुनः स्नेहात्' इत्याक्षेपो ध्वन्यते । सुभग ! बहुवल्लभत्वात्सौभाग्यसम्पन्न ! हे शुभगन्ध ! प्राणप्रियालिङ्गनसंक्रान्ताङ्गपरिमलत्वात्सौरभयुक्त ! गन्धितां ज्वरगन्धयुक्तां मां मा स्पृश । असुभगाया मम स्पर्शमात्रेण संक्रान्तज्वराऽशुभगन्धः प्राणवल्लभायास्त्वं किं मुधा कोपभाजनं भवसि ? तथा च त्वम् एवमवस्थामपि मां परित्यज्य पुनरपि तत्रैव समासक्तो भवष्यसीति सोत्प्रासमुपालम्भो ध्वन्यते।
'स्तोकमायस्यन्नेव खिद्यसे, न यथावद्रमसे' इति कान्तमाक्षिप्य सुरतसुखसंभ्रमात्खयमाबद्धपुरुषायितबन्धां पुनश्च सौकुमार्यादल्पायासेनैव श्रान्तां कान्तां कान्तः सहासमाह
सिहिपिच्छलुलिअकेसे वेवन्तोरु विणिमीलिअद्धच्छि । दरपुरुसाइरि विसुमरि जाणसु पुरिसाण जं दुःखम् ॥५२॥ [शिखिपिच्छलुलितकेशे वेपमानोरु विनिमीलितार्धाक्षि ।
ईषत्पुरुषायिते विश्रामशीले जानीहि पुरुषाणां यदुःखम् ॥] शिखिपिच्छलुलितकेशे निमीलिता क्षि वेपमानोरु ।
दरपुरुषायितविश्रमशीले पुंसामवेहि यदुःखम् ॥ ५२ ॥ रतिजनितकम्पवशात् वर्हिबर्हवत् विस्रस्तकेशकलापे ! स्तन-नितम्बभरसंवहनायासाद्विनिमीलितार्द्धनयने ! ऊरुयुगल एव दत्ताऽखिलभारतया कम्पमानोरु ! अतएव ईषत्पुरुपायिते एव विश्राम्यन्ति ! पुंसां यदुःखं (तदिदानीम् ) अवेहि जानीहि । गङ्गाधरस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org