________________
१ शतकम् ]
संस्कृतगाथासप्तशती।
वशीभूतः' इति अन्यमहिलाः प्रत्यात्मनः सौभाग्यं ध्वन्यते । यद्वा पत्युरन्यासङ्गप्रार्थनेन, अवकाशमिच्छन्त्या जारं प्रति प्रच्छन्नरताभिलाषः सूच्यत इति कश्चित् । अह. ङ्कारर्द्धिः ( अत्यहङ्कारा ) सेयमुद्धता नायिकेति स. कण्ठाभरणे भोजः (५ परि.)॥ स्वयंदूती पथिकमाह
थोअंपि ण णीसरई मज्झण्णे उह सरीरतललुका । आअवभएण छाई वि पहिअ ता किं ण वीसमसि ॥ ४९ ॥ [स्तोकमपि न निःसरति मध्याह्ने पश्य शरीरतललीना।
आतपभयेन च्छायापि पथिक तत्किं न विश्राम्यसि ॥1 स्तोकमपि निःसरति नो मध्याह्ने पश्य गात्रतललीना।
छायाप्यातपभयतो विश्राम्यसि किं न तत्पथिक ॥ ४२ ॥ आतपखिन्नाः पथिका यस्यां छायायां विश्राम्यन्ति सा अचेतना छायाप्यातपभयेन बहिर्न निष्क्राम्यति किं पुनश्चेतन इत्युत्प्रेक्षया मध्याह्ने न कोपि बहिनिःसरति, तथा च विविक्तनिरपायेऽस्मिन्सुखसमये छायामिव मां गात्रतललीनां कुर्विति प्रच्छन्नं रताभिलाषो व्यज्यते ॥
विरहोत्कण्ठिता चिरकालानन्तरमागतं कान्तमुपालभमाना ज्वरश्लाघाच्छलेन सचातुर्यमाह
सुहउच्छअंजणं दुल्लहं वि दूराहि अम्ह आणन्त । उअआरअ जर जी पिणेन्त ण कआवराहोसि ॥ ५० ॥ [सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् ।
उपकारक ज्वर जीवमपि नयन्न कृतापराधोऽसि ॥] सुखपृच्छकं सुदुर्लभजनमप्यस्माकमानयन् दूरात् ।
उपकारक जीवितमपि नयन् नहि ज्वर कृतापराधोसि ॥५०॥ सुखपृच्छकं अखस्थदशायां सुखं पृच्छति तादृशम् । तथा च लोकव्यवहारादागतो भवान् न स्नेहादित्युपालम्भो ध्वन्यते । अस्माकं नितरां दुर्लभं जनमपि दूरादानयन् । अतएव दुर्लभप्रियाऽऽनयनकरत्वादुपकारक हे ज्वर, जीवितमपि नयन न कृतापराधोसि । सुदुर्लभ इत्यनेन 'तुभ्यं समर्पितहृदया वयं ते सुलभास्त्वं तु अस्माकमतिदुर्लभः' इत्याक्षेपो द्योत्यते । दूरात् इति विपरीतलक्षणया समीपवासी अपि न दर्शनावसर ददासीत्युपालम्भसूचना वा । 'अस्माकं सुदुर्लभम्' इत्यनेन 'भवानस्मदर्थमेव निष्ठरहृदयः, अन्यासु ते निर्बाधा प्रीतिः' इत्युपालम्भो व्यज्यते । एवं चैतावत्कालं त्वदर्शना भिलाषेणैव दुःखं सोढमिदानीं तु त्वद्दर्शनोपकारो ज्वरेण साधित इत्येवं निःस्नेहे त्वयि
सं. गा. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org