SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २४ काव्यमाला | सखीमौग्ध्यकथनव्याजेन तत्प्रियतमस्य प्रवासनिरासार्थं काचिदाहहोन्तपहिअस्स जाओ आउच्छणजीअधारणरहस्सम् । पुच्छन्ती भमइ घरं घरेण पिअविरहसहिरीओ ॥ ४७ ॥ [ भविष्यत्पथिकस्य जाया आपृच्छनजीवधारणरहस्यम् । पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरह सहनशीलाः ॥ ] भाविपथिकस्य जाया ह्यापृच्छनजीवधारणरहस्यम् । पृच्छन्ती प्रतिगेहं भ्रमति प्रियविप्रयोगसहशीलाः ॥ ४७ ॥ भाविपथिकस्य अनुपदमेव पथिकतां स्वीकरिष्यतः, जाया स्त्री न तु वल्लभा । मत्सखी तु त्वां हृदयदयितं मन्यते परं त्वमेतां भरणीयां भार्यामात्रं मन्यसे, अत एव मुग्धामपीमां परित्यज्य प्रस्थातुं समीहस इत्युपालम्भो ध्वन्यते । प्रियविप्रयोगं सहते एवंविधं शीलं यासां ताः, अर्थात् प्रियविरहं याः सोढवत्य एवंविधाः दृढाः स्त्रियः प्रति, आपृच्छनम् 'प्रिये ! याम्यहम्' इति गमनप्रश्नः । तस्मिन् समये यज्जीवधारणं तस्य रहस्यं निगूढतत्त्वं पृच्छन्ती सती प्रतिगेहं भ्राम्यति । प्रियतमगमनसमये जीवधारणं सुतरां कठिन कार्यमिति न सहसा तादृशदृढ महिलालाभ संभवः, अतएव अन्वेषणार्थं प्रतिगृहं भ्रमतीत्याशयः । 'रहस्य' पदेन, आपृच्छनकाले जीवधारणस्योपायो न साधारणतया सुलभः किन्तु अतिगूढं तत्तत्त्वमिति तस्य दुर्लभत्वं ध्वन्यते । एतेन ' तव विरहस्तु दूरे, तव गमनसमय एव मुग्धाया एतस्या जीवन संशयः' इति सुस्पष्टं ध्वन्यते । प्रवासविषये साध्वसेन ( भयेन ) स्त्रिया: प्रेमपरीक्षा भवतीति सेयमुदाहरणरूपेण गृहीता गाथा भोजेन ( ५ परि० ) ॥ 1 काचित्स्वाधीनपतिका, अन्यस्त्रीष्वात्मनः सौभाग्यमास्थापयितुं पत्युरन्यवनिताप्रसङ्गप्रार्थनाव्यपदेशेन भर्तर्यन्यकामिन्यवकाशाभावमाह www.gyede अण्ण महिलापसङ्गं दे देव करेसु अझ दइअस्स । पुरिसा एक्कन्तरसा ण हु दोसगुणे विआणन्ति ॥ ४८ ॥ [ अन्य महिलाप्रसङ्गं हे देव कुर्वस्माकं दयितस्य । पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति ॥ ] अन्य महिलाप्रसङ्गं कुर्वस्माकं तु देव दयितस्य । पुरुषा एकान्तरसा दोषगुणौ न खलु जानन्ति ॥ ४८ ॥ 'दे'शब्दः सानुनयसंबोधने । हे देव, अस्माकं दयितस्यान्यमहिला प्रसङ्गं कुरु । यतः खलु एकमात्ररसाः पुरुषाः स्त्रीणां गुणदोषौ न जानन्ति । अन्तशब्दः स्वरूपवाची, ततश्च एकरसा इत्यर्थः । एकमात्ररसो मे दयित इति सूचनान्नात्राऽपरवनिताऽवकाश इति ध्वनितम् । स्त्रीणां गुणदोषपरिज्ञानाय कामं प्रसज्यतां मद्दयितोऽन्यमहिलाखिति वदन्त्या 'मत्सदृशी अन्यगुणवती न लप्स्यते । अतएव गुणमुग्धो मे दयितो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy