________________
२
३
१ शतकम् ] संस्कृतगाथासप्तशती।
२३ मानिनीमनुनेतुमनुभवशालिनी काचित्प्रौढा यौवनादिदुर्लभतामेवमाह--
णइऊरसच्छहे जोव्वणम्मि अइपवसिएसु दिअसेसु । अणिअत्तासु अ राईसु पुत्ति किं दड्डमाणेण ॥ ४५ ॥ [नदीपूरसदृशे यौवने अतिप्रोषितेषु दिवसेषु ।।
अनिवृत्तासु च रात्रिषु पुत्रि किं दग्धमानेन ॥] तारुण्ये सरिदोघप्रतिमेऽतिप्रोषितेषु दिवसेषु ।
अनिवृत्तासु च रात्रिषु पुत्रि नु किं दग्धमानेन ॥ ४५ ॥ कतिपयदिनस्थायितया यौवनस्य नदीपूरसादृश्यम् । अतिप्रोषितेषु अत्यन्तं (दीर्घम्) प्रवासं गतेषु, अपुनरागामिषु इति यावत् । एते दिवसा रात्रयश्च गता न पुनः प्रतिनिवर्तन्त इति भावः । अतएव एवं विधेषु अपुनर्लभ्येषु यौवनदिवसेषु सुखविघातकारकोयं भानहतकस्त्यज्यतामिति तात्पर्यम् । 'पुत्रि' इति संबोधनेन त्वत्तो वृद्धतया महाऽनुभवशालिन्यहं स्नेहभाजनं त्वां हितमुपदिशामीति निजवक्तव्यस्योपादेयता ध्वन्यते ॥
काचित्प्रवत्स्यत्पतिका निशाप्रार्थनाऽपदेशेनात्मनो विरहाऽसहत्वं सूचयन्ती कान्तप्रवास निरासार्थमाह
कल्लं किल खरहिअओ पवसिइहि पिओत्ति सुण्णइ जणम्मि । तह वड्ड भअवइ णिसे जह से कल्लं विअ ण होइ ॥४६॥ [कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रूयते जने ।
तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति ॥1 कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रुतं जनतः।
भगवति वर्द्धव निशे तथा, यथा कल्यमेव नोदेति ॥ ४६॥ मम पीडानभिज्ञत्वानिष्ठुरहृदयः प्रियः कल्यं प्रातः प्रस्थास्यते इति जनतः श्रूयते । 'प्रत्यूषोऽहर्मुखं कल्यः ।' 'जनात् श्रूयते' अनेन मद्विरहदुःखमनुमाय प्रत्यक्षं न स गन्तुमसूचयत्परं जनेभ्यः श्रूयते । तथा च मद्दुःखं जानन्नपि स प्रवसतीति निगूढ उपालम्भोऽभिव्यज्यते । भगवति निशे, तथा वर्द्धव यथा कल्यं न भवतीत्यनेन अहमिमां निशामेव दृष्टवती, नदिनोदयं द्रक्ष्यामि, तद्विरहे जीवितस्य खतोगामित्वादिति ध्वन्यते । तथा च यदि मजीवितं कामयसे तर्हि परिहर प्रवासाध्यवसायमिति प्रियं प्रत्यभिव्यज्यते । यद्वा प्रातरयं गमिष्यति, इतोगे त्वं स्वच्छन्दं विहरेति जारं सुखयितुं स्वैरिण्या उक्तिरियमिति ॥
१ एतां गाथामविकलमनुहरति हिन्दीपद्यमिदम्-"सजन सकारे जॉयगे नैन म गे रोय । विधना ऐसी रैन करि, भोर कबहु ना होय ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org