________________
२२
काव्यमाला |
एवं स्थितावपि लक्ष्मीमिव सौशील्यादिगुणोपेतामेतामङ्कगतां किमिति भीरुतयोपेक्षस इति नायकप्रोत्साहनं ध्वन्यते ॥
'प्रवासादिषु चिरविरहमपि सहन्ते योषित इति किं नामाऽत्रैव वर्तमाने तस्मिंश्चिरयति इयदुद्विग्नासि' इति सान्त्वयन्तीं प्रौढां कामपि विरहोत्कण्ठिता काचिदाहविरहाणलो सहिज्जइ आसाबन्धेण वल्लहजणस्स । एकग्गामपवासो माए मरणं विसेसेइ ॥ ४३ ॥ [ विरहानलः सात आशाबन्धेन वल्लभजनस्य । एकग्रामप्रवासो मातर्मरणं विशेषयति ॥ ]
वल्लभजनस्य सात आशाबन्धेन विरहवह्निरपि । प्रवसतिरेकग्रामे मातर्भरणं विशेषयति ॥ ४३ ॥ एकस्मिन्नेव ग्रामे प्रवासो मरणादतिरिच्यते, प्रत्याशा हेत्वभावादिति भावः । दूरस्थयोरिव अन्तिकस्थयोरपि संनिकर्षाभावात्प्रवासो भवतीति विषये सेयमुदाहृता गाथा भोजेन ( ५ परि. ) ।
सुरतसमये नायकस्यान्यमनस्कतां वीक्ष्य विमनायमानां नायिकां दूती आहअक्खडइ पिआ हिअए अण्णं महिलाअणं रमन्तस्स । दिट्ठे सरिसम्म गुणेsसरिसम्मि गुणे अणीसन्ते ॥ ४४ ॥ [ आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने ॥ ]
हृदये प्रियाssस्खलति किल रममाणस्यान्यमहिलायाम् । गुणे तु सदृशे दृश्यमाने गुणेऽसदृशे ॥ ४४ ॥
संस्कृते रमतेरकर्मकतया सप्तम्या विपरिणामश्छायायाम् । अन्य महिलायां रममास्य प्रियस्य हृदये सीत्कृत - हसित - सौन्दर्यादौ सदृशे गुणे दृष्टे सति, विसंवादिनि गुणे चादृष्टे सति पूर्वानुभूता प्रिया आस्खलति, सहसैवोदेति, स्मृतिपथमुपयातीत्यर्थः । 'प्रिया' पदेन 'हृदयस्य या प्रीतिपात्रं भवति सा सदृशान् गुणान् दृष्ट्वा हृदये जागर्ति' इति पूर्वानुभूतनायिकायाः प्रेमास्पदत्वं ध्वन्यते । एवं च अन्यस्त्रीप्रसङ्गे सति भर्तु - हृदये समानोत्कृष्टापकृष्टगुणाश्रयतया प्रिया स्मृतिपथं याति, न तु त्वयि वैराग्यादन्यमनस्कता । तथा च स्वैर्गुणैस्तामपि शनैः शनैर्विस्मारयेति नायिकां प्रत्युपदेशो ध्वन्यते । अथवा रममाण इति अन्तर्भावितण्यर्थमुपगम्य ' रममाणस्याऽपरां रमणीम्' इति छायापाठं स्वीकृत्य अन्यां रमणीं रमयत इत्यर्थोऽभ्युपगम्यः । एवमादिषु विषयेषु गङ्गाधरस्य मौनं धैर्यभङ्गायैव । यद्वा- कश्चिद्भुजङ्गो बहुवनितोपभोगेन कामुकत्वातिशयमा - त्मनः प्रकटयन्, शृण्वत्कामिनीजनचेतः समाकर्षणार्थं स्वानुभवमिवाह ॥
१ 'अखरना' 'खलना' हिन्दीभाषाप्रसिद्धम् इत एव प्राकृतरूपाद्विपरिणतं भवेदित्यनुमानम् ।
Jain Education International
ލ
For Private & Personal Use Only
www.jainelibrary.org