________________
२१
१ शतकम् ] संस्कृतगाथासप्तशती।
[तव वसतिरिति हृदयमाभ्यां दृष्टस्त्वमित्यक्षिणी ।
तव विरहे ऋशितानीति तस्या अङ्गान्यपि प्रियाणि ॥] वसतिस्तवेति हृदयं त्वममूभ्यां दृष्ट इति नेत्रे ।
तव विरहे कृशितानीत्यङ्गान्यपि तु प्रियाण्यस्याः॥४०॥ । हृदयं तव वसतिरित्यनेन 'सर्वदा त्वां सा हृदयेन विचिन्तयति'इत्यनन्यासक्तिरभिव्यज्यते । ततश्च आत्मनः शरीरमपि त्वत्सम्बन्धेनैव सा बहु मन्यते, अन्यथा एतावत्पर्यन्तं तव विरहे तस्या जीवितमेव दुरवस्थानमासीदिति, अनुरक्तां तामचिरमानन्दयेति नायकं प्रति ध्वन्यते ॥ __ काचित्खण्डिता बहुधा कृतापराधमथ च 'सद्भावस्नेहोचितं नेदम् , यत् इयत्कुप्यसि'इति भृशमनुनयन्तं कान्तं विपरीतार्थवाग्गुम्फेनोपालभते
सब्भावणेहभरिए रत्ते रजिजइत्ति जुत्तमिणम् । अणहिअओ उण हिअअंजं दिज्जइ तं जणो हसइ ॥४१॥ [सद्भावस्नेहभरिते रक्ते रज्यत इति युक्तमिदम् ।
अन्यहृदये पुनर्हदयं यद्दीयते तजनो हसति ॥] सद्भावस्नेहभृते रक्ते रज्यत इति हि युक्तमिदम् ।
यद्दीयतेऽन्यहृदये हृदयं यत्तजनो हसति ॥४१॥ सद्भावेन सर्वकार्यानुकूलतया साधुभावेन, स्नेहेन च पूर्णेऽनुरक्ते जनेऽनुरज्यत इतीदं युक्तमेव । किं च कुन्तलकलापस्नेहवति अलक्तकादिरागरक्ते तस्मिन् हृदयानुकूले जने त्वमपि पादसंवाहनादिना रजितो भवसीयपि साकूतमभिव्यजितम् । यत् पुनः अन्यहृदये सद्भावस्नेहशून्यस्य मादृशस्य हृदये यत् हृदयं दीयते तज्जनोपहासायेति तामेव स्नेहभरितां हृदयदयितामनुवर्तस्वेति भावः । यद्वा काचिद्रूती अभियोज्यायाः पत्यावनुरागभङ्गार्थ तस्मिन्नसन्तमपि दोषमुद्भावयन्ती इदमाह । अनुरक्त एव दृढानुबन्धो युज्यते, अननुरक्तेऽन्यत्रासक्ते तद्विडम्बनमात्रमिति तदाशयः ॥
वैफल्यशङ्कया नायिकाऽभिसारमनारभमाणं विमृश्यकारिणं नायकं प्रोत्साहयितुं दूत्याह
आरम्भन्तस्स धुरं लच्छी मरणं वि होइ पुरिसस्स । तं मरणमणारम्भे वि होइ लच्छी उण ण होइ ॥ ४२ ॥ [आरभमाणस्य ध्रुवं लक्ष्मीर्मरणं वा भवति पुरुषस्य ।
तन्मरणमनारम्भेऽपि भवति लक्ष्मीः पुनर्न भवति ॥] ध्रुवमारभमाणस्य प्रभवति लक्ष्मीनरस्य मरणं वा । मरणमनारम्भेपि प्रभवति लक्ष्मीः पुनर्न भवतीयम् ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org